________________
श्रीस्थानाङ्ग
सू०५१
दीपिका वृत्तिः
॥२६॥
सम्मामिच्छे' त्यादि ३। 'एगा कण्हे'त्ति व्याख्या, कृष्णपाक्षिकेतरयोर्लक्षणं-'जेसिमवड्ढो पोग्गल-परियट्टो सेसओ उ संसारो । ते मुक्कपक्खिया खलु, अहिए पुण किण्डपक्खिा ॥१॥' त्ति, एतद्विशेषितोऽन्यो दण्डकः ४ । 'एगा कण्हलेसाणमित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह- श्लेष इव वर्णबन्धस्य, कर्मवन्धस्थितिविधाच्यः' तथा 'कृष्णादिद्रव्यसाचिव्यात, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं. लेश्याशब्दः प्रयुज्यते ॥१॥' इति, इयं च शरीरनामकम्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकम्मपरिणतिविशेषत्वात् , यत उक्तं प्रज्ञापनावृत्तिकृता-'योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या? यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन बिहुत्यान्तमुहर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्येति स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्'कम्म हि कार्मणस्य कारगमन्येषां च शरीराणा'मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्थपरिणतिविशेषः काययोगः १, तोदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स वागयोगः२, तीदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीयपरिणतिर्योग उच्यते तथैव लेश्यापीति । अन्ये तु व्याचक्षते-'कर्मनिस्यन्दो लेश्येति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति, इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकचौरपुरुषषटकदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्याज्जाता अशुभपरिणामरूपा सा कृष्णलेश्या
॥२६॥
Jain Education
For Private & Personal use only
| www.jainelibrary.org