SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०५१ दीपिका वृत्तिः ॥२५॥ एष सामान्यदण्डकः १ । 'एगा भवसिद्धियेत्यादि, भविष्यतीति भवा-भाविनी सा सिद्धिः-निवतिर्येषां ते भवसिद्धिका-भव्याः, तद्विपरीतास्त्वभव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः ?. उच्यते, स्वभावकृतो, द्रव्यत्वेन समानयोर्जीवनभसोरिव, आह च-'दव्वाइत्ते तुल्ले, जीवनभाणं सभावओ भेदो । जीवाजीवाइगओ, जह तह भब्वेयरविसेसो ॥१॥' आभ्यां विशेषितोऽन्यो दण्डकः २ । 'एगा सम्मदिहियाण'मित्यादि, सम्यग-अविपरीता दृष्टिः दर्शनं रुचिस्तत्वानि प्रति येषां ते सम्यग्दृष्टिकाः, ते च मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या-विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टि:-दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः, मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तञ्च"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि, नः प्रमाणं जिनाभिहितम् ॥१॥" इति. तथा सम्यग मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्यादृष्टिका:-जिनोक्तभावान् प्रत्युदासीना इति सम्यग्दृष्टिमिथ्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमप्यस्ति, अत उक्तम 'एवं जाव थगिए'त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तश्च-'चउदस तस सेसया मिच्छत्ति' चतुर्दशगुणस्थानवन्तस्त्रसाः स्थावरास्तु मिथ्यादृष्टय एवेत्यर्थः । द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्भावात, ततस्तेषु सम्यग्दृष्टिमिथ्यादृष्टितयैव व्यपदेशः, 'एवं तेइन्दियाणवि चउरिदियागवित्ति, द्वीन्द्रियवद् व्यपदेशद्वयेन वगणैकत्वं वाच्यम्, पञ्चेन्द्रियतियगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तदव्यपदेशः, अत एवोक्तं-'सेसा जहा नेरइय' ति, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् 'जाव एगा ॥२५॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy