________________
श्रीस्थानाङ्ग
सू. ३२३॥
दीपिका वृत्तिः ।
र्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्त, न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत आगत गन्ध जानातीति, अथवा अत एव वचनाद् यदिन्द्रियविषयप्रमाणमुक्त तदौदारिकशरीरेन्द्रियापेक्षयैव संभाव्यते, कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टा शब्द शणुयुर्यदि पर प्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेष निगमनम् , आगमनकारणानि प्रायः प्राग्वत् , तत्सूत्र चेद सुगम, तथापि किश्चिदुच्यते-कामभोगेष्वमूर्छितादिविशेषणो यो देवस्तस्य 'एव'मिति एवंभूत मनो भवति यदुत अस्ति मे, किन्तदित्याह-आचार्य इति वा, इतिः-उपप्रदर्शने वा विकल्पे एवमुत्तरत्रापि कचिदितिशब्दो न दृश्यते तत्र तु सूत्र सुगममेवेति, इह च आचार्यः-प्रतिबोधकप्रव्राजकादिरनुयोगाचार्यो वा, उपाध्यायः-मूत्रदाता, प्रवर्त्तयति साधनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्तीत्यादि पूर्ववत् , 'इम'त्ति इय प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वा देवर्द्धिः-विमानरत्नादिका द्युतिः-शरीरादिसम्भवा युतिरिष्ट्रपरिवारादिसंयोगलक्षणा लब्धा-उपाजिता जन्मान्तरे प्राप्ता-इदानीमुपगता अभिसमन्वागता-भोग्यावस्थां गता, 'त'ति तस्मात्तान् भगवतः पूज्यान वन्दे स्तुतिभिः, नमस्यामि प्रणामेन, सत्करोमि आदरकरणेन वस्त्रादिना वा, सन्मानयाम्युचितप्रतिपत्त्या कल्याण | मङ्गल दैवत चैयमिति बुद्धया पर्युपासे-सेवे इत्येकम् , तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा 'मायाइ वा भज्जाइ वा भइणीइ वा पुत्ताइ वा धृयाइ वा' इति यावच्छब्दाक्षेपः, स्नुपा-पुत्र भार्या 'त' तस्मात्तेषामन्तिकंसमीप प्रादुर्भवामि-प्रकटीभवामि 'ता' तावत् 'मे' मम 'इमे'इति पाठान्तरमिति तृतीय, तथा मित्र-पश्चात्स्नेहवत्
1000०००००००००००००००००००००००००००००००००००००००००००००00000000
॥३५६॥
Jain Education
For Private & Personal use only
www.iainelibrary.org