SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सू०३१५-३१९। श्रीस्थाना सूत्रदीपिका वृत्तिः । .0000000000000000000000000000000000000000000000000000०८ मरणानन्तराप्रतिष्ठानमहानरकवेदनाप्राप्ततया चेति तथा अस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्वदुर्गतत्वादिना उदितश्च समृद्धिर्कीर्त्तिनुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपातनी चंगोत्रकर्मवशाजात( ०शावाप्त )हरिकेशाभिधानचाण्डालकुलतया दुर्गततया (दुर्भगतया) दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्प्रतिपन्नप्रव्रज्यो निष्पकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया मुगतिगततया च उदित इति ३ । तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्तिसमृद्धिलक्षणविवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकारकः, स हि सूकरैश्चरति मृगयां करोतीति यथार्थः सौकरिक एव, दुष्कुलोत्पन्नः प्रतिदिन महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवी गत इति अस्तमित एवेति ४ । 'भरहे' इत्यादि तूदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्विन्त्यन्ते ते जीवाः सर्व एव चतुर्पु राशिष्ववतरन्तीति तान् दर्शयन्नाह-'चत्तारि जुम्मे'त्यादि, 'जुम्म'त्ति-राशिविशेषः, यो हि राशिश्चतुष्कापहारेणापह्रियमाणः चतुःपर्यवसितो भवति इति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स योजः, द्विपर्यवसितो द्वापरयुग्मः, एकपर्यवसितः कल्योज इति । इह गणितपरिभाषायां समराशियुग्म इत्युच्यते विषमस्तु ओज इति, इयञ्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते-"सद्वात्रिशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्या-देतद् द्वित्रिचतुर्गुणम ॥१॥" इति, उक्तराशीन्नारकादिषु निरूपयन्नाह-'नेरइए'त्यादि सुगम, नवरं नारकादयश्चतुर्दाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्वसम्भवादिति, पुनर्जीवानेव भावनिरूपयन्नाह-'चत्तारि सूरे'त्यादिसूत्रद्वयं कण्ठयों, किन्तु शरा-वीराः, क्षान्तिशृरा अर्हन्तो महा ॥३४४॥ Jain Education i n For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy