SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सू०३०४-३०६। श्रोस्थानात सूत्रदीपिका वृत्तिः । 000000000000000000000000000000000००० वगाह्य-उल्लङ्घ्य ये शाखाविभागा वर्तन्ते 'एत्थति एतेषु शाखाविभागेषु अन्तरे-मध्ये समुद्रस्य द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिक-वैषाणिक-लाङ्गलिकद्वीपा अपि क्रमेणाग्नेयीनैऋतीवायव्यास्विति, चतुर्विधा इति समुदायापेक्षया नत्वेकैकस्मिन्निति, अतः क्रमेणते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुकादय एवेति । तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तर तेषां तावदेवायामविष्कम्भप्रमाण यावत्सप्तमानां नवशतान्यन्तर तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तु युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्र विभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकेवान्तरद्वीपानामष्टाविंशतिरिति । 'जबूद्दीवत्ति, 'एत्थ ण"ति मध्यमेषु दशयोजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया 'महइमहालया' इत्युक्तम् , महच्च तदरञ्जरंच, अरञ्जरम्उदककुम्भ इत्यर्थः, महारजरं तस्य संस्थानेन संस्थिता ये ते तथा, तदाकारा इत्यर्थः, महान्तस्तदन्यक्षुल्लकव्यवच्छेदेन पातालमिवागायत्वाद् गम्भीरत्वात् पातालाः पातालव्यवस्थितत्वाद्वा पातालाः, महान्तश्च ते पातालाश्चेति महापातालाः, बडबामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एते च मुखे च मूले च दश सहस्राणि योजनानां, मध्ये उच्चस्त्वेन च लक्षमिति, एपामुपरितनभागे जलमेव, मध्ये वायुजले, मुले वायुरेवेति, एतन्निवासिनो वायुकुमारा देवाः कालादय इति ॥ वेलां-लवणसमुद्रशिखामन्तर्विशन्ती बहिर्वाऽऽयान्तीमग्रशिखां च धारयन्तीति संज्ञात्वाद्वेलन्धरास्ते च ते नागराजाश्च-नागकुमारवरा वेलन्धरनागराजास्तेपामावासपर्वताः पूर्वादिदिक्षु क्रमेण गोस्तू 00000000000000000000000000000000000०००००००००0000000000 ॥३२८॥ 0000000000 Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy