________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥३२१॥
Jain Education Internatio
तादि त्रिविधमिति, माउवएकए 'त्ति मातृकापदैककम् - एक मातृकापदं तद्यथा - ' उप्पन्नेइ' वेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा - 'उप्पन्ने वा विगमेड़ वा धुवेइ वत्ति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्यापकत्वान्मात् कापदानीति, पर्यायैककः एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं स चानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्ग्रहैककः शालिरिति, अयमर्थः - सङ्ग्रहः – समुदायस्तमाश्रित्यैकवच नगर्भशब्दप्रवृत्तिः, तथा चैकोऽपि शालि: शालिरित्युच्यते, वहaise शालयः शालिरिति, लोके तथादर्शनादिति, क्रवचित् पाठः 'दविए एक्कए' इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येयमिति । कतीति प्रश्नगर्भापरिच्छेद वत्स इख्यावचनो बहुवचनान्तः, तत्र द्रव्याणि च तानि कतिद्रव्याणीत्यर्थः, द्रव्यविषयो वा कतिशब्दो द्रव्यकतिः, एवं मातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि । नाम च तत् सर्वं च नामसर्व, सचेतनादेर्वा वस्तुनो यस्य सर्व्वमिति नाम तन्नामसर्व नाम्ना सर्व सर्व इति वा नाम यस्येति विग्रहान्नामशब्दस्य च पूर्वनिपातः, तथा स्थापनया-सर्वमेतदितिकल्पनया अक्षादिद्रव्यं सर्वं स्थापनासर्व स्थापनैव वा अक्षादिद्रव्यरूपा सर्व स्थापनासर्वम्, आदेशनमा देश :- उपचारो व्यवहारः स च बहुतरे प्रधाने वा, आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते सर्व घृत, प्रधानेऽप्युपचारः यथा - ग्रामप्रधानेषु पुरुषेषु गतेषु सर्वो ग्रामो गत इति व्यपदिश्यत इति, अत आदेशतः सर्वमादेशसर्वमुपचारसर्व्वमित्यर्थः, तथा निरवशेषतया - अपरिशेषव्यक्ति समाश्रयेण सर्व, निरवशेषसर्व यथा - अनिमिषाः सर्व्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद् व्यभिचरतीत्यर्थः, सर्वत्र ककारः
For Private & Personal Use Only
सू० २९९ ।
॥३२१॥
www.jainelibrary.org