________________
सू०२९६।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३१९॥
स्थितिरनुभूयते सा स्थित्युदीरणेति, तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणेति, तथा प्राप्तोदयनियतपरिमाणकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद्वेदन सा प्रदेशोदीरणेति, इहापि कषाययोगरूपः परिणाम आरम्भो वोपक्रमार्थः, प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेणावगन्तव्याः, प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेणावबोद्धव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणामनसमर्थ जीववीर्यमिति । 'अप्पाबहुए'त्ति अल्प च स्तोकं बहु च-प्रभूतमल्पबहु तद्भावोऽल्पबहुत्व, दीर्घत्वासंयुक्तत्वे च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं वन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधवन्धकत्वाद् , बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः, पविधबन्धकत्वाद् , बहुतरवन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा-"सव्वस्थोवो संजयस्स जहन्नओ ठिइबंधो, एगिदियबायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेज्जगुणो" इत्यादि, अनुभाग प्रत्यल्पवहुत्वं यथा-"सव्वत्थोवाई अणंतगुणवुद्रिढठाणाणि, असंखिज्जगुणवुढिठाणाणि असंखेज्जगुणाणि, संखिज्जगुणवुड्रिढठाणाणि संखिज्जगुणाणि, जाव अणंतभागवुढिठाणाणि असंखिज्जगुणाणि' प्रदेशाल्पबहुत्वं यथा"अट्टविहबंधगम्स आउयभागो थोवो, नामगोयाण तुला विसेसाहिओ, नाणदंसणावरणंतरायाण तुल्लो विसेसाहिओ मोहस्स विसेसाहिओ, वेयणिज्जस्स विसेसाहिओ"त्ति, यां प्रकृति वध्नाति जीवः तदनुभावेन प्रकृत्यन्तरस्थ दलिकं वीर्य विशेषेण यत्परिणमयति स सङ्क्रमः, उक्त च-"सो संकमोनि भन्नइ, जं बंधणपरिणओ पओगेण । पययंतरत्थदलियं, परिणमइ तदनुभावे ज ॥१॥"ति. तत्र प्रकृतिसङ्क्रमः सामान्यलक्षणावगम्य एवेति. मूलप्रकृती
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jan Education
For Private & Personal use only
www.jainelibrary.org