SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२९६ सूत्र दीपिका वृत्तिः । ॥३१॥ 30000000000000000000000000000000000000000000 तस्यैव मोदकस्य यथा कणिक्कादिद्रव्याणां परिमाणवत्त्व, एवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेश बन्ध इति । उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः-कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो । योऽन्यत्र करणमिति रूढः, उपक्रमण वोपक्रमो-बन्धनादीनामारम्भः, 'स्यादारम्भ उपक्रम' इति वचनादिति, तत्र बन्धनं कर्मपुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनम् , इद च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्य, तस्योपक्रमः-उक्तार्थों बन्धनोपक्रमः, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्त च-"ज करणेणोकढिय, उदये दिज्जइ उदीरणा एसा । पगइठिइअणुभाग-प्पएसमूलुत्तरविभागा ॥१॥" तथा उदयोदीरणनिधत्तनिकाचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमनेति, उक्त च-"ओवट्टणउववट्टणसंकमणाईच तिन्नि करणाई" उपशमनायां सन्तीति प्रक्रमः, तथा विविधैः प्रकारैः कर्मणां सत्तोदयक्षयक्षयोपशमोद्वर्तनापवर्तनादिभिरेत द्रपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादन विपरिणामना, इह च विपरिणामना वन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति । बन्धनोपक्रमो-बन्धनकरण चतुर्दा, तत्र प्रकृतिवन्धनस्योपक्रमो जीवपरिणामो योगरूपः, तस्य प्रकृतिवन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं कपायरूपः, स्थितेः कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कपायरूपः, प्रदेशबन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तं-"जोगा पयडिपएस, ठिइअणुभागं कसायओ कुणइ"त्ति, प्रकृत्यादिवन्धनानामारम्भा वा उपक्रमा इति, एवमन्यत्रापि । यन्मूलप्रकृतीनामुत्तरप्रकृतीनां वा दलिक वीर्यविशेषेणाकृष्योदये दीयते सा प्रकृत्युदीरणेति, वीर्यादेव या प्राप्तोदयया स्थित्या सहाप्राप्तोदया For Private & Personal use only ॥३१८॥ Jain Education www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy