SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ । सू० २९६ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३१७॥ वसामणोवक्कमे ठितिउवसामणोवक्कमे अणुभावउवसामणोवक्कमे पतेसुवसामणोवक्कमे । विप्परिणामणोवक्कमे चउन्विहे पं० त०-पयइ० ठिइ० अणुभाव० पदेसविप्परिणामणोवक्कमे । चउब्विहे अप्पाबहुए ५० त०-पगइअप्पाबहुए ठिइ० अणु० पएसअप्पाबहुए । चउब्बिहे संकमे पं० त०-पगइसकमे ठिइ० अणु० पदेससकमे । चउबिहे निधत्ते पं० त-पगइनिधत्ते ठिइ० अणु० पपसनिधत्ते । चउविहे निकाइए पं० २०-पगइनिकाइए ठिइ० अणु० पएसनिकाइए (सू० २९६)। __ प्रकटं चैतत् , नवरं सकपायत्वाज्जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनमादान बन्धः, तत्र कर्मणः प्रकृतयः-अंशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा-अविशेषितस्य कर्मणो बन्धः प्रकृतिबन्धः, तथा स्थितिः-तासामेवावस्थान जघन्यादिभेदभिन्न तस्या बन्धो-निर्वर्तन स्थितिबन्धः, तथा अनुभावो-विपाकः तीत्रादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः-सम्बन्धन प्रदेशबन्धः, परिमितप्रमाणगुडादिमोदकबन्धवदिति, एवञ्च मोदकदृष्टान्त वर्णयन्ति वृद्धाः-यथा किल मोदकः कणिकागुडघृतकटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिदर्शन काचित् सुखदुःखादिवेदनमुत्पादयति, तथा तस्यैव मोदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिभवति. एवं कर्मणोऽपि तद्भावेन नियतकालावस्थान स्थितिबन्धः, तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भवति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभावबन्धः, तथा .000000000000000000000000000000000000000000000000000004 ॥३१७॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy