________________
सू०२९३॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३१४॥
रागरत्तवत्थसमाण लोभ अणुपविठे जीवे काल करेइ देवेसु उववज्जइ (सू० २९३)। _ 'चत्तारी'त्यादि प्रकटं, किन्तु केतनं-सामान्येन वक्र वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलक, तच्च वक्र भवति, केवलमिह सामान्येन वक्र वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाण-मेपशृङ्ग, गोमुत्रिका-प्रतीता, 'अवलेहणिय'त्ति अवलिख्यमानस्य वंशदलकार्या प्रतन्वी त्वक साऽवलेखनिकेति, वंशीमूलकेतनादिसमता तु मायायास्तद्वतामनार्जवभेदात् , तथाहि-यथा वंशीमूलमतिगुपिलवक्रमेव कस्यचिन्मायाऽपीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इय' चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुवन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि, वाचनान्तरे तु पूर्व क्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि'चत्तारि राईओ पन्नताओ, तं--पन्वयराई पुढविराई रेणुराई जलराई, एवामेव चउबिहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति, फलसूत्रेऽनुप्रविष्टः-तदुदयवर्तीति, शिलाविकारः शैलः, स चासौ स्तम्भश्च-स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरम् , अस्थि दारु च प्रतीत, तिनिशो-वृक्षविशेषस्तस्य लता-कम्बा तिनिशलता, सा चात्यन्त मृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावात् ज्ञेयेति, मानोऽप्यनन्तानुबन्थ्यादिरूपः क्रमेण दृश्यः, तत्फलसूत्र व्यक, कृमिरागे वृद्धसम्प्रदायोऽय-मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निर्झरलाला मुश्चन्ति ताः कृमिसूत्र' भण्यते, तच्च स्वपरिणामरागरञ्जितमेव भवति. अन्ये भणन्ति-ये रुधिरे कृमय उत्पद्यन्ते तान तत्रैव
2000000000000000000000000000000000000000००००००००००००००४
॥३१४॥
Jan Education
For Private
Personal use only
www.jane brary.org