SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सू०२८७-२८८1 श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३०७॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 'तहत्ति सेवकः सन् यथैवादिश्यते तथैव यः प्रवर्तते स तथा, अन्यस्तु नी तथैवान्यथापीत्यर्थः इति नोतथः, तथा स्वस्तीत्याह चरति वा सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवत्थी-माङ्गलिकाभिधायी मागधादिन्यः, एतेषामेवाराध्यतया प्रधानः-प्रभुरन्य इति । 'आततकर ति आत्मनोऽन्तमवसानं भवस्य करोतीत्यात्मान्तकरः, नो परस्य भवान्तकरी, धर्मदेशनाऽनासेवकः प्रत्येकबुद्धादिः १, तथा परस्य भवान्तं करोति मार्गप्रवर्तनेन परान्तको नात्मान्तकरोऽचरमशरीर आचार्यादिः २, तृतीयस्तु तीर्थकरोऽन्यो वा ३, चतुर्थो दुप्पमाचार्यादिः ४, अथवाऽऽत्मनोऽन्त'-मरण करोतीति आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधको द्वितीयः परवधकः तृतीय उभयहन्ता चतुर्थस्त्ववधक इति, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि इह तु प्रथमो जिनो, द्वितीयो भिक्षुः, तृतीय आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठ इति, अथवा आत्मतन्त्रम्-आत्मायत्तं धनगच्छादि करोतीत्यात्मतन्त्रकर एवमितरापि भङ्गयोजना स्वयमभ्योति । तथा आत्मानं तमयति-खेदयतीत्यात्मतमः-आचार्यादिः, परं-शिष्यादिक तमयतीति परतमः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमः-अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरोऽपि, तथा आत्मानं दमयति-शमवन्तं करोति शिक्षयति वेत्यात्मदम आचार्योऽश्वदमकादिर्वा, एवमितरोऽपि, नवरं परः शिष्योऽश्वादि । दमश्च गर्दागर्हातः स्यादिति गर्हासूत्र, तत्र गुरुसाक्षिकाऽऽत्मनो निन्दा गर्दा, तत्र उपसम्पद्य-आश्रयामि गुरुं स्वदोषनिवेदनार्थमभ्युपगच्छामि वोचित प्रायश्चित्तमितीत्येवंप्रकारः परिणाम एका गति, गर्हात्वं चास्योक्तपरिणामस्य गर्दायाः कारणत्वेन कारणे कार्योपचाराद् गर्दासमानफलत्वाच्च द्रष्टव्यमिति, तथा वितिगच्छामि'त्ति वीति-विशेषेण विविधैः प्रकारैर्वा ॥३०७॥ Jain Educatan For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy