________________
। सू० २८१।
श्रीस्थाना
सूत्रदीपिका वृत्तिः ।
॥२९७॥
००००००००००00000000000000000000000000000000000०००००००००
सप्तदश सूत्राणि नेयानि, तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभावः क्रोधादिमानिति । पुरुषजातप्रकरणमेव दृष्टान्तदान्तिकार्थोपेतमाविकथासूत्रादभिधीयते, पाठसिद्ध चैतत , नवरं ऋषभा-बलीवाः जातिगुणवन्मातृकत्वं कुलं-गुणवत्पितृकत्वं बल-भारवहनादिसामर्थ्य रूप-शरीरसौन्दर्यमिति, पुरुषास्तु स्वयं भावयितव्याः, २, अनन्तरदृष्टान्तसूत्राणि तु सपुरुषदान्तिकानि जात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां 'जाइसंपन्ने नो कुलसंपन्ने'इत्यादिना स्थानभङ्गकक्रमेण षडेव चतुर्भङ्गिकाः कृत्वा समवसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाह-"भद्रो मन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः । वनप्रचार-सारूप्यसत्त्वभेदोपलक्षिताः ॥१॥"इति, तत्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात् , मन्दो मन्द एव धैर्यवेगादिगुणेषु मन्दत्वात् , मृगो मृग इव तनुत्व भीरुत्वादिना, सङ्कीर्णः किश्चिदभद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमन:प्रभृतीनि च विन्यस्य 'भद्दे नाम एगे भदमणे' इत्यादिना क्रमेण समवसेयानि, तत्र भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः, मन्दं मन्दस्येव वा मनो यस्य स तथा, नात्यन्तधीरः,
भ | म । म | स एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिविचित्रलक्षणोपेतमना विचित्रचित्त इत्यर्थः|भाम। म स पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्षणमिदम्-'महु'इत्यादिगाथा, मधुवटिकेव(गुटिकेव)-क्षौद्रवटिकेव पिङ्गले अक्षिणी-लोचने यस्य सः तथा, अनुपूर्वेण
000000000000000000000000000000000०००००००००००००0000000000
॥२९॥
Jan Education International
For Privals & Fersonal use only
www.jainelibrary.org