SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सू०४८-४९ श्रीस्थाना सुत्र दीपिका ॥२०॥ च हिंसा ॥१॥" इति, स च प्राणातिपातो द्रव्यभावभेदाद द्विविधो, विनाश-परिताप-सङ्कलेशभेदात् त्रिविधी वा, आह च-"तप्पज्जायविणासो, दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ, वज्जेयव्यो पयत्तेण॥१॥" अथवा मनोवाकायैः करणकारणानुमतिभेदाम्नवधा, पुनः स क्रोधादिभेदात् षट्त्रिंशद्विषो वेति १, तथा 'एगे मुसावाए' त्ति, मृषा-मिथ्या वदनं वादो मृषावादः, स च द्रव्यभावभेदाद् द्विधा, तदभूतोद्भावनादिभिश्चतुर्की वा, तथाहि-अभूतोद्भावनं यथा सर्वगत आत्मा, भूतनिहूनवो यथा नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति २, तथा 'एगे अदिन्नादाणे' त्ति अदत्तस्य स्वामिजीवतीर्थङ्करगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमिश्रभेदस्य वस्तुन आदान-ग्रहणमदत्तादानं चौर्यमित्यर्थः, तच्च विविधोपाधिभेदादनेकविधमिति ३, तथा 'मेहुण' ति, मिथुनस्य स्त्रीपुरुषलक्षणस्य कर्म मैथुनम्-अब्रह्म, तत् मनोवाकायानां कृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधिवशाद् बहुविधतरं वेति ४, तथा 'एगे परिग्गहे' त्ति, परिगृह्यते-स्वीक्रियते इति परिग्रहः बाह्याभ्यन्तरभेदाद् द्विधा, तत्र वाह्यो धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा, आभ्यन्तरस्तु मिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मृछेत्यर्थः ५, 'एगे कोहे' त्यादि क्रोधमानमायालोभाः कषायमोहनीयकर्मपुद्गलसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसंख्याताध्यवसायस्थानभेदतो वा बहुधा ६-९ तथा 'पिज्जे' त्ति प्रियस्य भावः कम वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणस्वभावमभिष्वङ्गमात्रमिति १०, तथा 'दोसे' ति द्वेषणं द्वेषः, स ॥२०॥ Jaan Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy