SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सु०२५२-२५४। श्रीस्थानाङ्गसूत्र दीपिका वृत्तिः । ॥२७६॥ 000000000000000000000000000000000000000000000000000000 पुरुषस्तु आमो-वयःश्रुताभ्यामव्यतः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात् , तथा आम एव पकवमधुरफलसमान:-पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्योऽन्यो वयःश्रुताभ्यां परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात् , तथा पक्वस्तथैव, पक्वमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्वमधुर उक्तः, स च सत्यगुणयोगाद् भवतीति सत्य तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्त प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह-'चउब्विहे सच्चे इत्यादीनि गतार्थानि, नवरमृजुकस्यामायिनो भावः कर्म वा ऋजुकता, कायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङ्मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद् वदति कस्मैचित् किश्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना तद्विपक्षण योगः सम्बन्धोऽविसंवादनायोग इति, 'मोसे'त्ति मृपाऽसत्य कायस्यानृजुकतेत्यादि वाक्यम् । प्रणिधिः-प्रणिधानं प्रयोगः, तत्र मनसः प्रणिधानमारौद्रधर्मादिरूपतया प्रयोगो मनःप्रणिधानम् , एवं वाकाययोरपि, उपकरणस्य लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधान-प्रयोग उपकरणप्रणिधानम् । 'एव मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानां मध्ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तामेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणिधानञ्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं मनःप्रभृतीनां प्रयोजनं-सुप्रणिधान मिति । इदं च सुप्रणिधानं चतुर्विंशतिदण्डकनिरूपणायां मनुष्याणामेव तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह-‘एवं संजए' इत्यादि, दुष्प्रणिधानसूत्र सामान्यसूत्रबन्नवरं दुष्प्रणिधानमसंयमार्थ मनःप्रभृतीनां प्रयोग इति ॥ पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश .000000000000000000000000000000000000000000000000000000 ॥२७॥ Jain Educatan For Privale&Persorma Use Only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy