SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सू०२५०-२५१। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२७४॥ 00000000000000000000000000000000000000000000000000000.. यायां विशेषहीनं, एवं यावदुत्कृष्टायां विशेषहीनं निपिञ्चति, उक्त च-"मोत्तूण सगमबाहं, पढमाइ ठिईए बहुतरं | दव्यं । सेसे विसेसहीण, जावुक्कोसंति सव्वेसिं ॥१॥"ति, बन्धनं-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कपायपरिणतिविशेषानिकाचनमिति, उदीरणमनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदन-स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, निर्जरा-कर्मणोऽकर्मत्वभवनमिति, इह च देशनिजेरैव ग्राद्या, सर्वनिर्जरायाश्चतुर्विशतिदण्डकेऽसम्भवात् , क्रोधादीनां च तदकारणत्वात् , क्रोधादिक्षयस्यैव तत्कारणस्वादिति । अनन्तरं निर्जरोवता, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद् भवतीति प्रतिमासूत्रत्रय, तद् द्विस्थानकाधीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसतव्या, किन्तु स्मरणाय किञ्चिदुच्यतेसमाधिः-श्रुत चारित्रं च तद्विषया प्रतिमा-प्रतिज्ञाऽभिग्रहः समाधिप्रतिमा द्रव्यसमाधि, प्रसिद्धस्तद्विषया प्रतिमाअभिग्रहः समाधिप्रतिमा एवमन्या अपि, नवरमुपधानं तपः विवेकोऽशुद्धातिरिक्तभक्तपानवस्वशरीरतन्मलादित्यागः, 'विउस्सग्गे'त्ति कायोत्सर्गः । तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येक प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, मुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेवाहोरात्रप्रमाणः कायोत्सर्गो महाभद्रा, चतुर्मिश्चाहोरात्रैः समाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्वतोभद्रा, सा च दशभिरहोरात्रैः समाप्यत इति । मोयप्रतिमा-प्रश्रवणप्रतिज्ञा, सा च क्षुल्लिका या पोडशभक्तेन समाप्यते महती तु याऽष्टादशभक्तेनेदि, यवमध्या या यववदत्तिकवलादिभिराद्यन्तयोहीना मध्ये च वृद्धेति, वज्रमध्या तु याऽऽद्यन्तवृद्धा मध्ये हीनेति ॥ प्रतिमाश्च जीवास्तिकाये एवेति तद्विपर्ययस्वरूपाजीवास्तिकायसूत्रम् ....००००००००००००००००००००००००००००००००००००000000000०० ॥२७४|| JanEducation international For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy