________________
सू०२४८-२४९।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
||२७२॥
मसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति । 'चउप्पइदिए'त्ति चतुर्पु-आत्मपरोभयतदभावेषु प्रतिष्ठितश्चतु:| प्रतिष्ठितः, तत्र 'आयपइदिठए'त्ति आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषय आत्मप्रतिष्ठितः परेणाक्रोशादिनेरितः परविषयो वा परप्रतिष्ठितः आत्मपरविषय उभयप्रतिष्ठित आक्रोशादिकारणनिरपेक्षः केवल क्रोधवेदनीयोदयाद यो भवति सोऽप्रतिष्ठितः, उक्त च-"सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमञ्च निरुपक्रमश्च दृष्ट यथाऽऽयुष्कम् ॥१॥"इति, अयं च चतुर्थभेदो जीवे प्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, न तु सर्वथाऽप्रतिष्ठितः, चतुःप्रतिष्ठितत्वस्याभावप्रस ादिति । एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिप्ठितत्वं पूर्वभवे तत्परिणामपरिणतिमरणेनोत्पन्नानामिति, एवं मानमायालोभैर्दण्डकत्रयमपरमध्येतव्यमिति, क्षेत्र नारकादीनां ४ स्वं स्वमुत्पत्तिस्थानं प्रतीत्याश्रित्य, एवं वस्तु सचेतनादि ३ वास्तु वा गृहं, शरीरं दुःस स्थित विरूप वा, उपधिर्यद्यस्योपकरणम् , एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयम् , अनन्त भवमनुबध्नाति-अविच्छिन्न करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुवन्धो यस्येत्यनन्तानुवन्धी, न विद्यते प्रत्याख्यानमणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो-देशविरत्यावारकः, प्रत्याख्यानम् आ-मर्यादया सर्चविरतिरूपमेवेत्यथों वृणोतीति प्रत्याख्यानावरणः, सज्वलयति-दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा सज्वलतिदीप्यत इति सब्ज्वलनो यथारख्यातचारित्रावारकः, एवं मानमायालोभेष्वनन्तानुबन्ध्यादिभेदचतुष्टयमध्येतव्यमिति, तेषां निरुक्तिः पूज्यैरियमुक्ता-"अनन्तान्यनुवम्नन्ति, यतो जन्मानि भूतये । अतोऽनन्तानुबन्ध्याख्या क्रोधाद्यायेषु दर्शिता ||१|| नाल्पमप्युत्सहेोपां, प्रत्याख्या गमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीये निवेशिता ॥२॥
||२७२॥
Jan Education in
For Private & Personal use only