________________
स०४७
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः
तल्लक्षणाजीवधा 'एगे सद्दे' इत्यादिना 'जाव लुक्खे' इत्येतदन्तेन ग्रन्थेनैकतयैव दयन्ते, पुद्गलादीनां तु सत्ता केषाश्चिदनुमानतोऽवसीयते घटादिकार्योंपलब्धेः, केपाश्चित् सांव्यवहारिकप्रत्यक्षत इति ॥
एगे सहे, पगे रूबे, एगे गधे, एगे रसे, एगे फासे, पगे सुभिमहे, पगे दुभिसई, एगे सुरुवे, एगे दुरूवे पगे दीहे, एगे हस्से, पगे वट्टे, पगे तसे, एगे चउरसे, एगे पिहुले, एगे परिमंडले, एगे किण्हे, एगे णीले, एगे लोहिप, एगे हलिह, एगे सुकिल्ले, एगे सुब्भिगधे, पगे दुभिगधे, एगे तित्ते, एगे कडुप, एगे कसाए, एगे अंबिले, एगे महुरे, एगे कक्खडे जाव लुक्खे (सू०४७)
तत्र शब्दादिसूत्राणि सुगमानि, तानीमानि, शब्दयते-अभिधीयतेऽनेनेति शब्दो-ध्वनिः श्रोत्रेन्द्रियविषयः, रूप्यते-अवलोक्यते इति रूपम्--आकारश्चक्षुर्विषयः, घ्रायते-सिद्ध्यते इति गन्धो-घाणविषयः, रस्यते आस्वाद्यते इति रस:-रसनेन्द्रियविषयः, स्पृश्यते-छुप्यत इति स्पर्श:-स्पर्शनकरणविषयः, शब्दादीनां चैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयम् । शब्दभेदावाह--'सुब्भिस' ति, शुभशब्दा मनोज्ञा इत्यर्थः, 'दुभि' त्ति, अशुभः, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम्, एवं रूपव्याख्यानेऽपि सुरूपादयचतुर्दश शुक्लान्ता रूपभेदाः, तत्र सुरूपं मनोज्ञरूपमितररूपमिति । 'दीहे' त्ति दीर्घम्--आयततरम् 'हस्से' त्ति, हूस्वं-तदितरद् 'व' इत्यादि, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसंस्थानं मोदकवत् , तच्च प्रतरघनभेदाद् द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्द्धा, एवं शेषाण्यपि 'तंसे त्ति, तिस्रोऽस्त्रयः-कोटयो यस्मिस्तत् त्र्यखं-त्रिकोणम् , 'चतुरंसे'त्ति, चतस्रोऽत्रयो यस्य तत्तथा चतुष्कोणमित्यर्थः, 'पिहले त्ति, पृथुलं-विस्तीणम् ,
Jan Education International
For Privals & Fersonal use only
www.jainelibrary.org