SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः ॥ ॥१७॥ Jain Education Int एवान्यथा परमाणुरेवासौ न स्यादिति । सकलबादरस्कन्धप्रधानभूतमीपत्प्राग्भाराभिधानपृथ्वीस्वरूपं प्ररूपयन्नाह - 'एगा सिद्धी' त्ति सिद्धयन्ति कृतार्था भवन्ति यस्यां सा सिद्धिः सा च यद्यपि लोकाग्र, यत आह “इहं बोंदिं चइत्ताणं तत्थ गंतूण सिज्झइ " त्ति, तथापि तत्प्रत्यासत्येषत्प्राग्भाराऽपि तथा व्यपदिश्यते, आह च - " बारसहिं जोयणेहिं, सिद्धी सव्वहसिद्धाउ" त्ति यदि च लोकाग्रमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तं—“निम्मलद्गरयवण्णा, तुसारगोक्खीरहारसविन्ने" त्यादि तत्स्वरूपवर्णनं घटते ? लोकाग्रस्यासूत्वादिति, तस्मादपत्प्राग्भारा सिद्धिरिहोच्यते, सा चैका । सिद्धेरनन्तरं सिद्धिमन्तमाह – 'एगे सिद्धे' त्ति, सिद्धयति स्म कृतकृत्योऽभवत् सेधति स्म वा - अगच्छत् अपुनरावृत्त्या लोकाग्रमिति सिद्धः, सितं वा - बद्धं कर्म्म ध्मातं- दग्धं यस्य स निरुक्तात् सिद्धः कर्मप्रपञ्च निर्मुक्तः स चैको द्रव्यार्थतया पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानामनन्तत्वेऽपि तत्साम्यादेकत्वम् । कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह'एगे परिनिव्वाणे' त्ति, परि-समन्तान्निर्वाणं - सकलकर्म्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्व्वाणं तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति || परिनिर्वाणधर्म्मयोगात् स एव कर्म्मक्षयसिद्धः परिनिर्वृत उच्यते इति तद्दर्शनायाह – 'एगे परिनिन्कुए' त्ति परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति । तदेतावता ग्रन्थेनैते प्रायो जीवधर्म्मा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात् पुद्गलानां For Private & Personal Use Only सु०४४-४६ શુાં www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy