________________
स०४४-४६
श्रीस्थाना
सूत्र दीपिका वृत्तिः
॥१६॥
वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्यात् ज्ञानसम्यक्त्वयोः कः प्रतिविशेषः, उच्यते, रुचिः सम्यकत्वं रुचिकारणं तु ज्ञानं, यथोक्तं-"नाणमवायधिईओ, देसण मिट्ठ जहोग्गहेहाओ । तह तत्तई सम्म, रोइज्जइ जेण तं नाणं ॥१॥" ति, 'एगे चरित्ते' ति चर्यते मुमुक्षुभिरासेव्यते तदिति, चर्यते वा गम्यते अनेन निवृताविति चरित्रं, चारित्रमोहनीयक्षयाद्याविभूत आत्मनो विरतिरूपः परिणाम इति, सामायिकादितभेदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भावादिति, एतेषां च ज्ञानादीनामयमेव क्रमो, यतो नाज्ञातं श्रद्धीयते नाश्रद्धत्तं सम्यगनुष्ठीयत इति ॥ ज्ञानादीनि धुत्पत्तिविगमस्थितिमन्ति, स्थितिश्च समयादिकति समयं प्ररूपयन्नाह--
पगे समए (सू०४४) एगे परसे, पगे परमाणु (सू.४५) पगा सिद्धी, पगे सिद्धे, पगे परिनिव्याणे, पगे परिनिव्वुप (सू०४६)
'एगे समए' ति समयः-परमनिरुद्धकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताज्जरत्पटशाटिकापाटनदृष्टान्ताद वा समयप्रसिद्धादवबोद्धव्यः, स चैक एव वर्तमानस्वरूपः, अतीतानागतयोविनष्टानुत्पन्नत्वेनाभावात् । निरंशवस्त्वधिकारादेव सूत्रद्वयमाह-'एगे पएसे, एगे परमाणु' ति, प्रकृष्टो-निरंशो धर्माधर्माकाशजीवानां देश:-अवयवविशेषः प्रदेशः, स चैकः स्वरूपतः सद्वितीयत्वादौ देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । 'परमाणु' ति परमश्वासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः-यणुकादिस्कन्धानां कारणभूतः, आह-"कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च ॥२॥" इति, स च स्वरूपत एक
॥१६॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org