SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स.१७४३ श्रीस्थाना सूत्रदीपिका वृत्तिः । चेष्टाविशेषः, कर्म च भ्रमणादिक्रिया, बलं च शरीरसामर्थ्य, वीर्य च जीवप्रभवं, पुरुषकारश्च-अभिमानविशेषः, पराक्रमश्च पुरुषकार एव निष्पादितस्त्रविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तरायकर्मक्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयो, वीर्यान्तरायक्षयक्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षयक्षयोपशममात्राया एकविधत्वादेक एव जघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेवं प्राग्वदिति ॥ पराक्रमादेश्च ज्ञानादिमोक्षमार्गोऽवाप्यते, यत आह-"अब्भुटाणे विणये, परकमे साहुसेवणाए य । सम्मईसणलंभो, विरयाविरईय विरई य ॥१॥ ति" अतो ज्ञानादीनां निरूपणार्थमाह-'एगे नाणे' त्ति ज्ञायते-परिच्छिद्यतेऽर्थोऽनेनास्मिन्नस्माद्वेति ज्ञान-ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा, ज्ञातिर्वा ज्ञानम्-आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेषः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपश्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसाम्यादेकमुपयोगापेक्षया वा, तथाहि-लब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाज्जीवानामिति, ननु दर्शनस्य ज्ञानव्यपदेशत्वमयुक्तं विषयभेदाद, उक्तं च-"जं सामनग्गहणं, दंसणमेयं विसेसियं नाणं" ति, अत्रोच्यते, ईहावग्रहो हि दर्शन सामान्यग्राहकत्वाद, अवायधारणे च ज्ञानं, विशेषग्राहकत्वात् 'एगे दंसणे' ति दृश्यन्ते श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शन-दर्शनमोहनीयस्य क्षयः क्षयोपशम उपशमो वा, दृष्टि दर्शनं दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप .. आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादेकम्, एक जीवस्य ॥१५॥ Jan Education For Private & Personal use only www.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy