________________
०२४७॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२६६॥
हिंसादिष्वधर्मरूपेषु नरकादिकारणेषु धर्मबुद्धयाऽभ्युदयार्थ या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तू कलक्षणादिषु हिंसाद्यपायेषु दोषोऽसत्प्रवृत्तिरिति असकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तमस जातानुतापस्य कालसौकरिकादेवि या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । अथ धर्मध्यान धर्म्य चतुर्विधमिति स्वरूपेण चतुषु पदेषु-स्वरूपलक्षणाऽऽलम्बनाऽनुक्षालप्रेक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, कचित् 'चउप्पडोयार मिति पाठः, तत्र चतुर्यु पदेषु प्रत्यवतारो यस्येति विग्रह इति, 'आणा विजये'त्ति आ-अभिविधिना ज्ञायन्ते अर्था यया साऽऽज्ञा-प्रवचन सा विचीयते-निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा वा विजीयते अभिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजय, एवं शेषाणामपि, नवरमपायाः-रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः-फलं कर्मणां ज्ञानाद्यावारकत्वादि, संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह च-आप्तवचन प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरव-परीपहाद्यैरपायस्तु ॥१॥ अशुभशुभकर्मपाकानुचिन्तनार्थों विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनु-गमन संस्थानविचयस्तु ॥२॥"इति, एतल्लक्षणान्याह-आणारुइ'त्ति आज्ञा-मूत्रव्याख्यान नियुक्त्यादि, तत्र तया वा रुचिः-श्रद्धानमाज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गःस्वभावोऽनुपदेशस्तेन, तथा सूत्रम्-आगमः तत्र तस्माद्वा, तथा अवगाहनमवगाढ-द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते तेन रुचिरथवा 'ओगाढे'त्ति साधुप्रत्यासन्नीभूतम्तस्य साधृपदेशानुचिः, उक्तं च-"आगमउवए सेण,
॥२६६॥
Jain Educaton n
ational
For Private & Personal use only
www.iainelibrary.org