________________
श्रीस्थानाङ्ग
सू० २४७॥
दीपिका वृत्तिः ।
000000000000000000000000000000000000000000000000000000000000000000000
शोचनता-दीनता तेपनता-तिपः क्षरणार्थत्वादश्रुविमोचन परिदेवनता पुनः पुनः विष्टभाषणमिति, एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आह-"तस्सकंदणसोयग-परिदेवणताडणाई लिंगाई। इटाणिविओगा-विओगवियणानिमित्ताई ॥१॥"ति, निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च"निदइ निययकयाई, पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रजइ, तयज्जणपरायणो होइ ॥१॥"त्ति । अथ रौद्रध्यानभेदा उच्यन्ते, 'हिंसाणु 'त्ति, हिंसां-सत्त्वानां वधबन्धनादिभिः प्रकारैः पीडामनुवध्नाति सततप्रवृत्तां करोतीत्येवंशील यत्प्रणिधान हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुवन्धि रौद्र ध्यानमिति प्रक्रमः, उक्त च-"सत्तवहवेहवंधण-डहणंकणमारणाइपणिहाण । अइकोहग्गहगत्थं, निग्घिणमणसोऽहमविवाग ॥१॥"ति, तथा मृषाऽसत्य तदनुबध्नाति पिशुनाऽसभ्याऽसद्भूतादिभिर्वचनभेदैरतन्मृपानुबन्धि, आह च-"पिमुणासम्भासब्भूय-भूयघायाइवयणपणिहाण । मायाविणोऽतिसंधण-परस्स पच्छन्नपावस्स ॥१॥"त्ति, तथा स्तेनस्य-चौरस्य कर्म स्तेय तीवक्रोधाद्याकुलतया तदनुवन्धवत् स्तेयानुवन्धि, आह च-"तह तिव्यकोहलोहाउलम्स, भूओवघायणमणज्ज । परदव्वहरणचित्तं, परलोगावायनि/वक्ख ॥१॥"ति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, तथाह-"सदाइविसयसाहण-धणसंरक्खणपरायणमणि । सव्याभिसंकणपरोवघाय-कलुसाउल चित्तं ॥१॥"ति । अथैतल्लक्षणान्युच्यन्ते-'ओसण्णदोसे त्ति, हिंसादीनामन्यतरस्मिन ओसन्न-प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषः अथवा 'ओसन्न ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोपः-प्रवृत्तिलक्षणो बहुदोषः, बहु-बहुविधो हिंसानृतादिरिति बहुदोपः, तथाऽज्ञानात्-कुशास्त्रसंस्काराद्
For Private & Personal use Onty
000000000000000000000000000000000000000000000000000000004
॥२६॥
Jan Education
www.jainelibrary.org