________________
श्रीस्थानाङ्ग
सूत्र
दीपिका
वृत्तिः ।
॥२६४॥
Jain Education Internat
सम्प्रयुक्तो वा य इति गम्यते ' तस्ये 'ति अमनोज्ञशब्दादेर्विप्रयोगाय - वियोगार्थं स्मृतिश्चिन्ता तां समन्वागतः - समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादार्त्तमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनो विप्रयोगे - प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिश्चिन्तन तस्याः समन्वागतं - समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतं, चापीति तथैव भवति आर्त्तध्यानमिति प्रक्रमः, | प्रथममेवमुत्तरत्रापि, नवरं मनोज्ञं-वल्लभं धनधान्यादि, अविप्रयोगोऽवियोग इति द्वितीयमार्त्तं, तथा आतङ्को -रोग इति तृतीय, तथा 'परिजुसिय'त्ति निषेविता ये कामाः कमनीया भोगाः शब्दादयोऽथवा काम-शब्दरूपे भोगाः - गन्धरसस्पर्शाः कामभोगा: कामानां वा शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा 'परिझुसिय'त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यरतस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतं - समन्वाहारः, तदपि भवत्यार्त्तं ध्यानमिति चतुर्थ, द्वितीय वल्लभघनादिविषयं चतुर्थ तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थ तत्र निदानमुक्तम् उक्तं च- “अमणु
सदाविसयवत्थूण दोसमाइलस्स । [ वस्तूनि - शब्दादिसाधनानि दोसोत्ति द्वेपः ) धणियं विओगचिंतणसंपओगाणुसरणं च || १|| तह सूलसीसरोगाइवेयणाए विभगपणिहाण । तयसंपओगचिंता, तप्पडियाराउलमणस्स ||२|| द्वाणं विसयाईण, वेयणाए य रागरत्तस्स । अविओगज्झवसाण, तह संजोगाभिलासो य || ३॥ देविंदचकवट्टित्तणाइ-गुण रिद्धिपत्थणामइयं । अहमं नियाण चिंतणमन्नाणाणुगयमच्चतं ॥४॥ 'ति, आर्त्तध्यानलक्षणान्याह - लक्ष्यते-निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्त्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता - महता शब्देन विखण
For Private & Personal Use Only
सू० २४७ ।
॥२६४॥
www.jainelibrary.org