________________
सू०२४६-२४७।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२६२॥
जीवप्रदेशेभ्योऽपरिशटिते इच्छेन्मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३, तथा 'एव'मिति 'अहुणोवबन्ने' इत्याद्यभिलापसूचनार्थ निरयायुष्के कर्मणि अक्षीणे यावत्करणाद् 'अवेइए'त्यादि दृश्यमिति ४ । निगमयन्नाह-'इच्चेएहि"ति, इत्येवंप्रकारैरेतेः-प्रत्यक्षरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्त, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति तद्विपक्षभूतपरिग्रहविशेष चतुःस्थानकेऽवतारयन्नाह-'कप्पंती'त्ति कल्पन्ते-युज्यन्ते निर्गता ग्रन्थाद-बन्धहेतोर्हिरण्यादेमिथ्यात्वादेश्चेति निग्रन्थ्यः-साध्व्यस्तासां सङ्घाट्यः-उत्तरीयविशेषरूपा धारयितुं वा परिग्रहे परिहर्नु वा परिभोक्तुमिति, द्वौ हस्तौ विस्तार:-पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् सङ्घाटीनां, 'एग दुहत्यवित्थार एगं चउहत्यवित्थारं'ति प्रथमा स्यात्तदर्थे च प्राकृतत्वाद् द्वितीयोक्ता, धारयन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन वा क्रियानुस्मृतेहितीयेव, तत्र प्रथमोपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे ॥ नारकत्वं ध्यानविशेषाद् , ध्यानविशेषार्थमेव संघाट्यादिपरिग्रह इति ध्यान प्रकरणत आह
चत्तारि झाणा पं० त०-अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, अट्टे झाणे चउविहे पं० २०अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगसइसमण्णागए यावि भवइ १, मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगसइसमण्णागए यावि भवइ २, आतंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागए यावि भवइ ३, परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवइ ४, अट्टस्स ण झाणस्स चत्तारि लक्षणा पं, त-कंदणया सोयणया तिप्पणया परिदेवणया । रुद्दे झाणे चउविहे पं०, त
॥२६२॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org