SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२६॥ 00000000000000000000000000000000000000000000000000000001 'चउविहे'त्यादि, वनस्पतिः प्रतीतः स एव कायः-शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अन बीज येषां ते अग्रबीजाः-कोरिण्टकादयः, अग्रे वा बीज येषां तेऽग्रवीजा:-ब्रीद्यादयः, मूलमेव बीज येषां ते मूलबीजाः-उत्पलकन्दादयः, एवं पर्वबीजाइक्ष्वादयः, स्कन्धबीजाः-सल्लुक्यादयः, स्कन्धः थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदपराणि, तेन वीजरुहसम्मृर्छनजादीनां नाभावो मन्तव्यः, सूत्रान्तरविरोधादिति । अनन्तरं वनस्पतिजीवानां चतुःस्थानकमुक्तम् , अधुना जीवसाधान्नारकजीवानाश्रित्य तदाह-'चउही'त्यादि सुगम, केवल 'ठाणेहिति कारणैः 'अहुणोदवन्ने ति अधुनोपपन्नोऽचिरोपपन्नः, निर्गतमय-शुभमस्मादिति निरयो-नरकस्तत्र भवो नैरयिकः, तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामय मानुपस्त लोक-क्षेत्रविशेष 'हब'शीघ्रमागन्तुं, 'नो चेव'त्ति नैव, ण वाक्यालङ्कारे, 'संचाएइ'त्ति सम्यक शवनोति आगन्तुं, 'समुब्भूय"ति समुद्भूतामतिप्रबलतत्योपन्नां पाठान्तरेण 'सम्मुखभूता'मेकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवन महद्भूतं तेन सह या सा समहद्भूता तां सुमहद्भूतां वा वेदनां-दुःखरूपां वेदयमानो-ऽनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् १। एतदेव चाशकनस्य, तीववेदनाभिभूतो हि न शक आगन्नुमिति १, तथा निरयपालैः-अम्बादिभिर्भूयोभूयः पुनः पुनरधिप्ठीयमानः-समाक्रम्यमाणः आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारण, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति २, तथा निरये वेद्यते-अनुभूयते यत् निरययोग्य वा यद्वेदनीय तन्निरयवेदनीय-अत्यन्ताशुभनामकर्मादि असातवेदनीय वा तत्र कर्मणि अक्षीणे-स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥२६॥ । Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy