________________
सू०२४०-२४२।
श्रोस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२५७॥
0 0000000000000000000000000000000000000000000
शुद्धमना अन्तः, एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः शुद्धशीलाचारः शुद्धव्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्युङ्गवन्तो वाच्याः , व्याख्या च प्रागिवेति, अत एवाह-'एव'मित्यादि। पुरुषभेदाधिकार एवेदमाह
चत्तारि सुया ५० त०-अतिजाते अणुजाते अवजाते कुलिंगाले (सू० २४०)। चत्तारि पुरिसजाया पं० त० सच्चे णाम एगे सच्चे, सच्चे णाम एगे असच्चे, चउभंगो ४, एवं परिणते जाव परक्कमे, चत्तारि वत्था पं० त०-सुई णाम एगे सुई, सुई णाम पगे असुई, चउभंगो ४, एवामेव चत्तारि पुरिसजाया, पंत-सुई णाम एगे सुई, चउमंगो, एवं जहेव सुद्धेण वत्थेण भणित तहेव सुइणावि, जाव परक्कमे (सू० २४१)। चत्तारि कोरवा पंत-अंबपलंबकोरवे, तालपलबकोरवे वल्लिपलबकोरवे मिंदविसाणकोरवे, एवामेव चत्तारि पुरिसज्जाया पं० त०-अंबपलबकोरवसमाणे तालपलबकोरवसमाणे वल्लिपलबकोरवसमाणे मेंढविसाणकोरवसमाणे (सू० २४२) ।
सुताः-पुत्राः 'अइजाए'त्ति पितुः सम्पदमतिलय जातः-संवृत्तोऽतिक्रम्य वा तां यातः-प्राप्तो विशिष्टतरसम्पदं समृद्धतर इत्यर्थः, इत्यतिजातोऽतियातो वा, ऋषभवत् , तथा 'अणुजाए'त्ति अनुरूपः, सम्पदा पितुस्तुल्यो जातोऽनुजातः, पितृसम इत्यर्थः, महायशोवत् , आदित्ययशसा पित्रा तुल्यत्वात्तस्य, तथा 'अवजाए'त्ति अप इत्यपसदो हीनः, पितुः सम्पदो जातोऽपजातः पितुः सकाशादीपद्धीनगुण इत्यर्थः, आदित्ययशोवत् , भरतापेक्षया तस्य हीनत्वात् , तथा 'कुलिंगाले'त्ति कुलस्य-स्वगोत्रस्याङ्गगार इवाङ्गारो दुपकत्वादुपतापकत्वाद्वेति, कण्डरीकवत् , एवं शिष्यचातुर्विध्यमप्यवसेय, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् , तत्रातिजातः सिंहगिर्यपेक्षया वैरस्वामिवत् , अनुजातः शयंभवापेक्षया यशोभद्रवत् , अपजातो भद्रबाहुस्वाम्यपेक्षया स्थूलभद्रस्वामिवत , कुलागारक कूलवालकवदुदायिनृपमारकवद्वेति ।
For Private & Personal use only
1000000000000000000000000000000000000000000000000000000000000000000
॥२५॥
6
Jain Education tema
www.jainelibrary.org