________________
सू०२४०-२४२
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२५८॥
00000000000000000000000000000000000000000000000000000...
तथा 'चत्तारी'त्यादि, सत्यो-यथावद्वस्तुभणानाद्यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सद्भ्यो हितत्वादथवा पूर्व सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी । एवंप्रकारसूत्राण्यतिदिशमाह-एव'मित्यादि, व्यक्त, नवरमेवं ॥ सूत्राणि-'चत्तारि पुरिसजाया पं० तं०-सच्चे नाम एगे सच्चपरिणए ४, एवं सच्चरूवे ४, सच्चमणे ४, सच्चसंकप्पे ४, सच्चपन्ने ४, सच्चदिट्ठी ४, सच्चसीलायारे ४, सच्चववहारे ४, सच्चपरक्कमेत्ति ४, पुरुषाधिकार एवेदमपरमाह-'चत्तारि वत्थे'त्यादि शुचि-पवित्र स्वभावेन, पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतुर्भङ्ग्यां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, 'सुइपरिणए सुइरूवे' इत्येतत्सूत्रद्वय दृष्टान्तदान्तिकोपेतम् , 'सुइमणे' इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह-एव'मित्यादि कण्ठयम् । पुरुषाधिकार एवेदमपरमाह'चत्तारि कोरवे'त्ति, तत्र आम्रचूतस्तस्य प्रलम्बः-फलं तस्य कोरक-तन्निष्पादक मुकुल आम्रप्रलम्बकोरकम् , एवमन्येऽपि, नवरं तालो-वृक्षविशेषः, वल्ली-कालिङ्ग्यादिका, मेण्ढविषाणा-मेषशगसमानफला वनस्पतिजातिः, आउलिविशेष इति, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम् , न तु चत्वार्येव लोके कोरकाणि, बहुतरोपलम्भादिति, 'एव'मित्यादि सुगम, नवरमुपनय एवं-यः पुरुषः सेव्यमान उचितकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफल करोति स तालप्रलम्बकोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपि शोभनवचनान्येव अते उपकार तु न कञ्चन करोति स मेढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाच्चेति ॥ पुरुषाधिकार एव घुणसूत्र'
.000000000000000000000000000000000000000000000000000064
Jan Education in
For Private & Personal use only
www.iainelibrary.org