________________
श्रीस्थाना
सू०२३६-२३९॥
दीपिका वृत्तिः ।
'वङ्क' इति तु वक्रः, अन्तर्मायित्वेन कारणवशप्रयुक्तार्जव भाव दुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशादर्शितबहिरनार्जवोऽन्तर्निर्माय इति प्रवचनगुप्तिरक्षाप्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठवदिति, कालभेदेन वा व्याख्येयम् २ । अथ ऋजुः ऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाह-एव'मित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण 'यथे ति येन प्रकारेण परिणतरूपादिविशेषणनवकविशेषिततयेत्यर्थः, उन्नतप्रणताभ्यां परस्परप्रतिपक्षभूताभ्यां गमः-सदृशपाठः कृतः, 'तथा' तेन प्रकारेण परिणतरूपादिविशेषिताभ्यामित्यर्थः, ऋजुवक्राभ्यामपि भणितव्यः, कियत्तमः ? इत्याह-'जाव परकमे'त्ति, ऋजुवक्रवृक्षसूत्रात्त्रयोदशसूत्र यावदित्यर्थः, तत्र च ऋजु २ परिणत ऋजुपरिणत २ ऋजुरूप २ लक्षणानि षट् सूत्राणि वृक्षदृष्टान्तपुरुषदान्तिकस्वरूपाणि, शेषाणि तु मनःप्रभृतीनि सप्त अदृष्टान्तानीति १३ । पुरुषविचार एवेदमाह ---
पडिमापडिवन्नस्स ण अणगारस्स कप्पंति चत्तारि भासाओ भासित्तए, तंजहा-जायणी पुच्छणी अणुण्णवणी पुट्टस्स वागरणी (सू० २३७) । चत्तारि भासजाया पंत-सच्चमेग भासज्जात बितिय मोस ततीय सच्चमोस चउत्थं असच्चमोस ४ (सू० २३८) । चत्तारि वत्था पं० त०-सुद्धे णाम पगे सुद्धे १ सुद्धे णाम एगे असुद्धे २ असुद्धे णाम एगे सुद्धे ३ असुद्धे णाम एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाया पं० त-सुद्धे णाम पगे सुद्धे च उभंगो ४, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाया पं० त०सुद्धे णाम एगे सुद्धमणे चउभंगो ४, एवं संकप्पे जाव परक्कमे (सू० २३९) ।
___ 'पडिमे'त्यादि स्फुट पर प्रतिमा-भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नोऽभ्युपगतवान यस्तस्य,
100000000000000000000000000000000000000000000000000000
॥२५॥
JanEducation international
For Private & Personal use only
www.jainelibrary.org