________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२५०॥
| गम्यते, अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्मतयोत्पन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकापेक्षया समुच्चयार्थः, अपि सम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः, भवति-स्यात् , स इति असो, णमिति वाक्यालङ्कारे, मुण्डो भूत्वा-द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन, अगाराद्-द्रव्यतो गेहाद् भावतः संसाराभिनन्दिनां देहिनामावासभूतादविवेकगेहान्निष्क्रम्येति गम्यते, अनगारिता-साधुतां प्रवजितः-प्रगत प्राप्त इत्यर्थः, किंभूत इत्याह-'संजमबहुले'त्ति संयमेन-पृथिव्यादिसंरक्षणलक्षणेन बहुल:-प्रचुरो यः सः तथा, संयमो वा बहुलो यस्य स तथा एवं संवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः अथवा इन्द्रियकपायनिग्रहादिभेदः, एवं च संयमबहुलग्रहण प्राणातिपातविरतेः प्राधान्यख्यापनार्थ, यतः-"इक्क चिय इत्थ वय, निदिटुं जिणवरेहि सव्वेहिं । पाणाड्यायविरमण-मवसेसा तस्स रक्खट्टा ॥१॥"त्ति, एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुल:, समाधिस्तु-प्रशमवाहिता ज्ञानादिर्वा, समाधिः पुननिःस्नेहस्यैव भवतीत्याह-'हे' रूक्ष:शरीरं मनसि च द्रव्यभावस्नेहवर्जितत्वेन परुषः, लूपयति वा कर्ममलमपनयतीति लूपः, कथमसावेवं संवृत्त इत्याह-'तीही तीरं-पारं भवार्णवस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् 'तीरट्ठे'त्ति, अत एवाह-'उवहाणव' उपधीयते--उपष्टभ्य ते श्रुतमनेनेति उपधान-श्रुतविषयस्तप उपचार इत्यर्थः, तद्वान् , अत एव 'दुक्खकग्ववे'त्ति दुःखम्-अमुख तत्कारणत्वाद्वा कर्म तत् क्षपयतीति दुःखक्षपः, कर्मक्षपण च तपोहेतुकमित्यत आह-तबस्सी'ति तपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी 'तम्स 'ति यश्चैवंविधस्तस्य ण वाकयालङ्कारे नो तथाप्रकारमत्यन्तघोरं वर्द्धमानजिनस्येव तपोऽशनादि भवति,
॥२५०||
Jan Education
For Private & Personal use only
www.jainelibrary.org