________________
सू०२३-1
श्रीस्थानाङ्ग-
सूत्रदीपिका वृत्तिः ।
॥२५॥
तथा नो तथाप्रकारा-अतिघोरवोपसर्गादिसम्पाद्या वेदना-दुःखासिका भवति, अल्पकर्मप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्मप्रत्यायातादिविशेषणकलापोपेत पुरुषजात-प्रकारो 'दीर्घण' बहुकालेन 'पर्यायेण' प्रव्रज्यालक्षणेन करणभूतेन सिद्धयति-अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमनयोग्यो वा भवति, सकलकर्मनायकमोहनीयघातात् , ततो घातिचतुष्टयघातेन बुद्धयते केवलज्ञानभावात् समस्तवस्तूनि, ततो मुच्यते भवोपग्राहिकर्मभिः, ततः परिनिर्वाति-सकलकर्मकृतविकारव्यतिकरनिराकरणेन शीतीभवतीति, किमुक्तं भवतीत्याह-सर्वदुःखानामन्त करोति, शारीरमानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्यायेण किं कोऽपि सिद्धः ? इति शङ्काऽपनोदार्थ माह-'जहा से'इत्यादि, यथाऽसौ प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा 'भरतो' राजा चत्वारोऽन्ताः-पर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता तस्या अयं स्वामित्वेनेति चातुरन्तः, स चासो चक्रवर्ती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थ सिद्धविमानाच्च्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्यः अतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमान्तक्रियेति १ । 'अहावरे'त्ति, 'अर्थ' अनन्तरमपरा पूर्वापेक्षया याऽन्या द्वितीयस्थानेऽभिधानाद् द्वितीया महाकर्मभिः-गुरुकर्मभिर्महाका सन् प्रत्यायातः प्रत्याजातो वा यः स तथा, 'तस्स ण'मित्यादि, तस्य महाकर्मप्रत्याजातत्वेन तत्क्षपणाय तथाप्रकार घोर तपो भवति, एवं वेदनापि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, 'निरुद्धेनेति अल्पेन यथाऽसौ 'गजसुकुमारो' विष्णोर्लधुभ्राता, स हि भगवतोऽरिष्टनेमिनाथस्यान्तिके प्रव्रज्यां प्रतिपद्य श्मशाने कुतकायोत्सर्गलक्षणमहातपाः शिरोनिहित जाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति, शेष कण्ठयम् २ । 'अहाबो'त्यादि
5000000000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org