________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥२४४॥
Jain Education Interna
क्षममुचितं तथाविधव्याधिव्याघातकौषधपानमिव निःश्रेयस - निश्चितं श्रेयः - प्रशस्य भावतः पञ्चनमस्कार करणमिवआनुगामिकमनुगमनशील ं भास्वरद्रव्यजनितच्छायेवेति । अयं चैवंविधः साधुरिव पृथिव्यां भवतीत्यर्थेन[त्यनेन ] सम्बन्धेन पृथिवीस्वरूपमाह -
गमेगाणं पुढवी तिहिं बलपहिं सव्वओसमंता संपरिक्खित्ता, तंजहा - घणोदद्दिवलपण घणवातवलपण' तणुवातवरण (सू० २२४ ) । णेरइया ण उक्कोसेण तिसमइएण विग्गहेण उववज्र्ज्जति, एगिंदियवज्ज' जाव वेमाणियाण (सू० २२५) ।
' एगमेगा ण' मित्यादि, एकैका पृथिवी रत्नप्रभादिका सर्व्वतः किमुक्त भवति ? समन्तादथवा दिक्षु विदिक्षु चेत्यर्थः, 'सम्परिक्षिता' वेष्टिता, आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र घनः - स्त्यानो हिमशिलावद् उदधिर्जलनिचयः स चासौ स चेति घनोदधिः, स एव वलयमिव वलय-कटक घनोदधिवलयं तेन, एवमितरे अपि, नवर घनश्वासौ वा तथाविधपरिणामोपेतो घनवातः, एवं तनुवातोऽपि तथाविधपरिणाम एवेति । एतासु च पृथिवीषु नारका उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह - 'नेरइयाण' मित्यादि, त्रयः समयास्त्रिसमयं तद्यत्रास्ति स त्रिसमfreeda विग्रेहण-चक्रगमनेन 'उक्कोसेण 'ति त्रसानां हि त्रसनाड्यन्तरुत्पादाद वक्रद्वयं भवति, तत्र च त्रय एव समयास्तथाहि - आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति त्रसानामेव त्रसोत्पत्तावेवंविध उत्कर्षेण विग्रह इत्याह- 'एदिए' इत्यादि, एकेन्द्रियास्त्वेकेन्द्रियेषु पञ्चसामयिकेनाप्युत्पद्यन्ते यतस्ते बहिस्तात् सनाडीतो वहिरप्युत्पद्यन्ते, तथाहि - "विदिसाउ दिस पढमे,
For Private & Personal Use Only
सू०२२४-२२५ ।
॥२४४॥
www.jainelibrary.org