SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सू० २२१-२२२। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । वद्भिस्तद्वर्णा लेश्या लोहितवर्णेत्यर्थः, तेजोलेश्येति, पद्मगर्भवर्णा लेश्या पीतवर्णेत्यर्थः, पद्मलेश्या, शुक्ला प्रतीता, एवंकरणात् प्रथमसूत्रवत् । 'तओ'इत्याद्यभिलापेन शेषसूत्राण्यध्येतव्यानीति, तत्र दुर्गति-नरकतिर्यग्रूपां गमयन्ति || प्राणिनमिति दुर्गतिगामिन्यः, सुगति देवमानुष्यरूपा, सक्लिष्टाः सङ्क्लेशहेतुत्वादिति, विपर्ययः सर्वत्र सुज्ञानः, अमनोज्ञा अमनोज्ञरसोपेतपुद्गलमयत्वात् , अविशुद्धा वर्णतः, अप्रशस्ता अश्रेयस्योऽनादेया इत्यर्थः, शीतरूक्षाः स्पर्शत आद्याः, द्वितीयास्तु स्निग्धोष्णाः स्पर्शत एवेति । अनन्तरं लेश्या उक्ताः, अधुना तद्विशेषितमरणनिरूपणायाह-तिविहे' इत्यादि सूत्रचतुष्टय, बालोऽज्ञस्तद्वयो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बालोऽसंयतस्तस्य मरण बालमरणम् , एवमितरे, केवल 'पडि'धातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानयुक्तत्वात् , पण्डितोबुद्धतत्त्वः संयत इत्यर्थः, तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद बालपण्डितः-संयतासंयत इति, स्थिता-अवस्थिता अविशुद्धत्वात् संक्लिश्यमाना च लेश्या कृष्णादियस्मिन् तत्स्थितलेश्यः, संक्लिष्टा-संक्लिश्यमाना संक्लेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवाः-पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध या वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति, तत्र प्रथम कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषत्पद्यते तदा प्रथम भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीय, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतलेश्येत्पद्येत तदा तृतीयम् , उक्त चान्त्यद्वयसंवादि 'भगवत्यां', यदुत-"से णूण भंते ! कण्हलेसे णीललेसे जाव मुक्कलेसे भवित्ता काउलेसेसु नेरइएमु उवव जड ? हता, गोयमा !. से केणद्वेण भंते ! एवं वुच्चइ ?. गोयमा ! लेसाठाणेमु संकिलिस्समाणेसु वा विमुज्झमाणेसु ॥२४॥ Jain Education For Private & Personal use only |www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy