________________
सू०२१८-२२०॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२३९॥
'तिविहे 'त्यादि व्यावर्तन व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेनिवृत्तिरित्यर्थः, सा च या ज्ञस्य-हिंसादे हेतुस्वरूपफलविदुषो ज्ञानपूर्विका व्यावृत्तिः, सा तदभेदात् 'जाणु'त्ति गदिता, या त्वज्ञस्याज्ञानात् सा 'अजाणू' इत्यभिहिता, या तु विचिकित्सातः-संशयात् सा निमित्तनिमित्तिनोरभेदा द्विचिकित्से'त्यभिहिता । व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति तयोरधुना भेदानतिदेशत आह-'एव'मित्यादिसूत्रे, 'एव'मिति व्यावृत्तिरिय त्रिधा 'अज्झोबवजण'त्ति अध्युपपादनं क्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थः, तत्र जानतो विषयजन्यमनर्थ या तत्राध्युपपत्तिः सा जाण, या त्वजानतः सा अजाणू, या तु संशयवतः सा विचिकित्सेति, 'परियावज्जण'त्ति पर्यापदन पर्यापत्तिरासेवेति यावत् , साऽप्येवमेवेति । 'जाणु'त्ति ज्ञः, स च ज्ञानात्स्यादित्युक्त, ज्ञान चातीन्द्रियार्थेषु प्रायः शास्त्रादिति शास्त्रभेदेन तद्भेदानाह-'तिविहे अते' इत्यादि, अमनमधिगमनमन्तः-परिच्छेदः, तत्र लोको-लोकशास्त्र तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः, तस्मादन्तो-निर्णयस्तस्य वा परमरहस्य पर्यन्तो वेति लोकान्तः, एवमितरावपि, नवरं वेदा ऋगादयः, समया जैनादिसिद्धान्ता इति । अनन्तरं समयान्त उक्तः, समयश्च जिनकेवल्यईच्छब्दवाच्यैरुक्तः सम्यग्भवतीति जिनादिशब्दवाच्यभेदानभिधातु त्रिसूत्रीमाह-'तओ जिणे'त्यादि. सुगमा, नवरं रागद्वेषमोहान् जयन्तीति जिनाः-सर्वज्ञाः, उवतं च-"रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ । अस्त्रीशस्त्राक्षमालत्वा-दईन्नेवानुमीयते ॥१॥" इति, तथा जिना इब ये वर्त्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिज्ञानजिनः, एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचारः, उपचारकारण तु प्रत्यक्षज्ञानित्वमिति, केवलमेकमनन्त पूर्ण वा ज्ञानादि येषामस्ति ते
॥२३९॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org