SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ||२३८|| Jain Education Intern मुक्तं तच्च धर्म एवेति तद्भेदानाह - 'तिविहे ' इत्यादि स्पष्ट केवल भगवता महावीरेणेत्येवं जगाद सुधर्मस्वामी जम्बूस्वामिनं प्रतीति, सुष्ठु - कालविनयाद्याराधनेनाधीतं - गुरुसकाशात् सूत्रतः पठितं स्वधीत तथा सुष्ठु - विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातमनुप्रेक्षितं श्रुतमितिगम्य, मुध्यातम्, अनुप्रेक्षाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रतधर्म उक्तः, तथा सुष्ठु - इहलोकाद्याशंसारहितत्वेन तपस्थित - तपस्यानुष्ठानं, सुतपस्थितमिति च चारित्रधर्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयति- 'जया' इत्यादि व्यक्तं, परं निर्दोपाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यात न भवति, तदभावे ज्ञानविकलतया सुतपस्थित न भवतीति भावः, यदेतत् स्वीतादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः 'से'त्ति स स्वाख्यातः - सुष्ठुक्तः सम्यग्ज्ञानक्रियारूपत्वात् · तयोश्चैकान्तिकात्यन्तिकमुखाबन्ध्योपायत्वेन निरुपचरितधर्मत्वात् सुगतिधारणाद्धि धर्म इति उक्त च - " नाणं पगासगं सोहओ तवी संजमो य गुत्तिकरो । तिन्हं पि समाओगे, मुक्खो जिणसासणे भणिओ ||१|| "त्ति, णमिति वाक्यालङ्कारे । सुतपस्थितमिति चारित्रमुक्तं तच्च प्राणातिपातादिनिवृत्तिस्वरूपमिति तस्य भेदानाह— " तिविहा वावती पं० त० - जाणू अजाणू वितिगिच्छा, एवमज्झोववज्जणा परियावज्जणा (सू० २१८) । तिविहे अंते पं० त० - लोगंते वेदंते समयंते [सू० २१९ ] । तओ जिणा पं० त० - ओहिणाणजिणे मणपजवणाणजिणे केवलणाणजिणे १, तओ केवली पं० त०-ओहिणाणकेवली मणपज्जवणाणकेवली केवलणाणकेवली २, तओ अरहंता (अरहा) पं० त० - ओहिणाणअरहा मणपजवणाणअरहा केवलनाणअरडा ३. [सू० २२०] । For Private & Personal Use Only सू० २१७-२१८२१९-२२० ॥ ||||२३८॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy