________________
श्रीस्थानाङ्ग
२१६-२१७॥
दीपिका वृत्तिः ।
॥२३७॥
&000000000000000000000000000000000000000000000000000
| दर्शनद्धिः प्रवचने निःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वा, चारित्रद्धिः चारित्रे निरतिचारता ६ । सचित्ता | शिष्यादिका, अचित्ता वस्त्रादिका, मिश्रा तथैवेति । इह च विकुर्वणादिऋद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । ऋद्धिसद्भावे च गौरवं भवतीति तद्भेदानाह
तओ गारवा ५० त०-इढिगारवे रसगारवे सायागारवे (सू० २१५)। तिविहे करणे ५० त०धम्मिए करणे अधम्मिए करणे धम्मियाधम्मिए करणे (सू० २१६) । तिविहे भगवया धम्मे प० त०सुअधिज्जिए सुज्झाइए सुतवस्सिए, जया सुअधिज्जित भवइ तया सुज्झाइय भवइ, जया सुज्झाइय भवइ तया सुतवस्सिय भवइ, से सुअधिज्जिते सुज्झाइते सुतवस्सिते सुतक्खाते ण भगवता धम्मे पण्णत्ते [सू० २१७] ।
'तओ गारवे'त्यादि व्यक्त, परं गुरोर्भावः कर्म वेति गौरख, तच्च द्विधा-द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋद्धया-नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवं ऋद्धिगौरवं, ऋद्धिप्राप्यभिमानाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः, एवमन्यत्रापि, नवरं रसो-सनेन्द्रियार्थों मधुरादिः, सात-मुखमिति, अथवा ऋद्धयादिषु गौरवमादर इति । अनन्तरं चारित्रर्द्धिरुका, चारित्रं च करणमिति त दानाह-'तिविहे' इत्यादि, कृतिः करणमनुष्ठान, तच्च धार्मिकादिस्वामिभेदेन त्रिविध तत्र धार्मिकस्य-संयतस्येद धार्मिकमेवमितरे, नवरमधार्मिकोऽसंय तस्तृतीयो देशसंयतः, अथवा धर्मे भवं धर्मों वा प्रयोजनमस्येति धार्मिक, विपर्यरतमितरद् , एवं तृतीयमीति । धार्मिककरणमनन्त
000000000000000000000000000000000000000000000000000
॥२३७॥
JanEducation international
For Private & Personal use only
www.jainelibrary.org