________________
00000000
श्रीस्थानाङ्ग
सु० २१३-२१४।
दीपिका वृत्तिः ।
॥२३५॥
&0000000000000000000000000000000
व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पनया तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यत इति । चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो भवतीति त दिग्भेदेन विभजन्नाह-'तिविहे'त्ति, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समितिसम्यग न संशयतया तथा भा-मर्यादया गमनमभिसमागमो-वस्तुपरिच्छेदः । इहैव ज्ञानभेदमाह-'जया ण'मित्यादि, 'अइसेस'त्ति शेषाणि छद्मस्थज्ञानान्यतिक्रान्तमतिशेष-ज्ञानदर्शनं तच्च परमावधिरूपमिति सम्भाव्यते, केवलस्य न क्रमेणोपयोगी येन तत्प्रथमतयेत्यादिसूत्रमनवा स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता, तस्यां 'उड्द'ति, ऊर्ध्वलोकमभिसमेति-समवगच्छति जानाति, ततस्तिर्यगिति-तिर्यग्लोक, ततस्तृतीये स्थानेऽध इत्यधीलोकमभिसमेति, एवं च सामर्थ्यात् , प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताभिगमत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति । अनन्तरमभिसमागम उक्तः, स च ज्ञान, तच्च ऋद्धिरिदेव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात् | तदभेदानाह
-तिविहा इइढी ५० त०-देविडूढी रायइढी गणिइढी १, देविड्ढी तिविहा प० त०-विमाणिइढी विउव्वणिढी परियारणिढी २, अहवा देविड्ढी तिविहा पं० त०-सचित्ता अचित्ता मीसिया ३, रायइढी तिविहा पंत-रण्णो अतियाणिइढी, रणो णिज्जाणिडूढी, रण्णो बलवाहणकोसकोट्ठागारिइढी ४, अहवा रायइढी तिविहा पं० त०-सचित्ता अचित्ता मीसिया ५, गणिड्ढी तिविहा प० त०-णाणिइढी दंसणिइढी चरित्तिडूढी ६. अहवा गणिड्ढी तिविदा पं० त०-सचित्ता अचित्ता मीसिया ७ (सू० २१४) ।
-200000000000000000000000000000000000000000000000001
Jan Education International
For Private & Personal use only
www.jainelibrary.org