________________
सू०२०८-२०९
२१०॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२३२॥
शैक्ष:-अभिनवप्रवजितः, एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भावः-पर्यायः, सच जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भावं-ज्ञानादि प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दृपणतो वा, यथा-"पागयमुत्तनिबद्धं,
को वा जाणइ पणीय केणेय । किं वा चरणेण तू , दाणेण विणा उ कि हवइ ॥१॥"त्ति, सूत्र-व्याख्ये|| यमर्थस्तव्याख्यान निर्युक्त्यादिस्तदुभय-द्वितयमिति, तत्प्रत्यनीकता-"काया वया य ते चिय, ते चेव पमाय
अप्पमाया य । मोक्खाहिगारियाण', जोतिसजोणीहिं कि कज? ॥१॥"इत्यादिदोषोद्भावनमिति । उक्ता कल्पस्थितिः, गर्भजमनुजानामेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह
तओ पियंगा पं० त०-अट्ठी अद्धिमिजा केसमंसुरोमनहे । तओ मायंगा पं० त०-मंसे सोणिए मथुलिंगे (सू० २०९)।
सूत्रद्वयं कण्ठय, केवल पितुर्जनकस्याङ्गान्यवयवाः पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थिप्रतीत १, अस्थिमिञ्जा-अस्थिमध्यरसः २, केशाच-शिरोजाः श्मश्रु च-कूर्चः रोमाणि च कक्षादिजातानि नखाश्च-प्रतीताः केशश्मश्रुरोमनखमित्येकमेव ३ प्रायः समानत्वादिति । मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः, मांस-प्रतीत, शोणित-रक्त, मरतुलिङ्ग शेष मेदः फिप्फिसादि, कपालमध्यवर्ति भेजकमित्येके । पूर्वोक्तस्थविरकल्पस्थितिपतिपन्नस्य विशिष्टनिर्जराकारणान्यभिधातुमाह
तिहिं ठाणेहि समणे णिग्गंथे महाणिज्जरे महापज्जवसाणे भवइ, तं-कया ण अह अप्प वा बहुय
॥२३२॥
JainEducation interna
For Private & Personal use only
www.jainelibrary.org