SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२०६। दीपिका वृत्तिः । ॥२२॥ 2010000000000000000000000000०.०००००००००००००००००००००००००००० पूर्वपर्यायच्छेदेनोपस्थापनीयमारोपणीय छेदोपस्थापनीय, व्यक्तितो महावतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव, तत्स्थितिश्चोक्तलक्षणेष्वेव दशसु स्थानकेष्ववश्यपालनलक्षणेति, तथाहि-"दसट्ठाणढिओ कप्पो, पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुयरयकप्पो, दसठाणपइटिओ होइ ॥१॥"त्ति । तथा णिविसमाण'त्ति, निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति परिहारिका इत्यर्थः, तेषां कल्पे स्थितियथा-ग्रीष्मशीतवर्षाकालेषु क्रमेण तपो जघन्य चतुर्थषष्ठाष्टमानि मध्यम पष्ठादीन्युत्कृष्टमष्टमादीनि, पारण त्वायाममेव. पिण्डैषणासप्तके चाद्ययोरभिग्रह एक, पञ्चमु पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रहः । ‘णिब्बि?माण'त्ति, निर्विष्टाआसेवितविवक्षितचारित्रा अनुपरिहारिका इत्यर्थः, तत्कल्पस्थितियथा-प्रतिदिनमायाममात्र तपो भिक्षा तथैवेति, उक्त च-"कप्पट्ठिया वि पइदिण करंति एमेवमायाम"ति, एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, ते चैवंविधा:-"सन्वे चरित्तवंतो उ, दसणे परिनिद्विया । नवपुब्बिया जहण्णेण, उक्कोसा दसपुब्विया ॥१॥"इत्यादि । 'जिणकप्पत्ति, जिना-गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिजिनकल्पस्थितिः, सा चैव-जिनकल्पं हि प्रतिपद्यते जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति, उत्कृष्टतस्तु दशसु भिन्नेषु प्रथमे संहनने, दिव्याधुपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, वसतिः सर्वोपाधिविशुद्धाऽस्य, भिक्षाचर्या तृतीयपौरुष्यां, पिण्डैषणोत्तरासां पञ्चानामेकतरैव, विहारो मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति, एवंप्रकारा चेय 'सुयसंधयणे'त्यादिकात् गाथासमहात् 'कल्पोक्ता'दवगन्तव्येति, भणित च-"गच्छम्मि य निम्माया, धीरा जाहे य गहिय +000000000000000000000000000000000000000000000000000000 Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy