________________
श्रीस्थानाङ्ग
सू०२०५-२०६।
दीपिका वृत्तिः ।
ܕ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥२२८॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
कुंचवरो तओ दीयो ॥६॥” इति क्रमापेक्षयकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रपमिदं-'कुण्डलवरस्से'त्यादि । तथा त्रयोदशे रुचकाख्ये द्वीपे कुण्डलाकृती रुचक इति, एतस्य विद स्वरूपं"रुयगवरस्स उ मज्झे, नगुत्तमो होइ पव्वओ रुयगो । पागारसरिसरूवो, रुअगं दीवं विभयमागो॥१॥"इत्यादि, मानुपोत्तरादयो महान्त उठा इति महदाधिकारादतिमहत आह-'तओ महई'त्यादि व्यक्त, केवलमतिमहान्तश्च ते आलयाश्च-आश्रयाः अतिमहालयाः, महान्तश्च ते अतिमहालयाश्चेति महातिमहालयाः, 'मदरेसुत्ति, मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णा सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति, स्वयम्भूरमणो महान् मुमेरोरारभ्य तस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात् , तेषां तस्य च क्रमेण किञ्चिन्यूनाधिकरज्जुपादप्रमाणत्वादिति, ब्रह्मलोकस्तु महान् , तत्प्रदेशे पञ्चरज्जुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति । अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधात् कल्पस्थिति त्रिधाऽऽह
तिविहा कप्पट्टिई पं० त०-सामाइयकप्पट्टिई छेदोवट्ठावणियकप्पट्टिई णिविसमाणकप्पष्टिई ३, अहवा तिविहा कप्पट्टिई प० त-णिब्विट्टकप्पट्टिई जिणकप्पट्टिई थेरकप्पट्टिई ३ (सू० २०६) । ___तिविहे 'त्यादिसूत्रद्वयं कण्ठय, केवल समानि-ज्ञानादीनि तेषामायो लाभः समायः स एव सामाथिक-संयमविशेषः, तस्य तदेव या कल्पः-करणमाचारः, यथोक्त-"सामर्थ्य वर्णनायांच, करणे छेदने तथा । औपम्ये चाधिवासे च,कल्पशब्द विदुर्बुधाः॥१॥"इति सामायिककल्पः, स च प्रथमचरमतीर्थयोः साधूनामल्पकालः, छेदोपस्थापनीयसद्भावात् , मध्यमतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात् , तदेवं तस्य तत्र वा स्थितिमर्यादा सामायिककल्पस्थितिः । तथा
||२२८॥
Jan Education
For Privals & Fersonal use only
www.jainelibrary.org