________________
श्रीस्थानाङ्क
सूत्रदीपिका वृत्तिः । ॥२१२॥
100000000000000000000000000000000000000000000000000000
जीय? ॥३॥"ति ६ । 'एव'मित्यादिना पूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राऽक्षरघटना-यथैवोपक्रमे आत्मपरतदुभयैस्त्रयवय आलापका उक्ता एवमेकैकस्मिन् वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति ॥ अथ श्रुतधर्मभेदा उच्यन्ते
तिविहा कहा पं० त०-अत्थकहा धम्मकहा कामकहा ७, तिविहे विणिच्छए पं० त०-अत्थविणिच्छप धम्म'विणिच्छए कामविणिच्छए ८, (सू० १८९) ।
तिविहा कह'त्ति, अर्थस्य-लक्ष्म्याः कथा-उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्त च-"सामादिधातुवादादि-कृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥१॥" तथा-"अर्थाख्यः पुरुषार्थोऽय, प्रधानः प्रतिभासते । तृणादपि लघु लोके, धिगर्थरहितं नरम् ॥१॥” इति, इयं कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्मकथा, उक्त च-"दयादानक्षमायेषु धर्मागेषु, प्रतिष्ठिता। धर्मापादेयतागर्भा, बुधैर्धर्मकथोच्यते ॥१॥" तथा-"धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्त पशोस्तुल्यं, धिग्धर्मरहितं नरम् ॥२॥" इति, इयं चोत्तराध्ययनादिरूपाऽवसेयेति, एवं कामकथाऽपि, यदाह-"कामोपादानगर्भा च, वयोदाक्षिण्यसूचिका । अनुरागेगिताद्युत्था, कथा कामस्य वर्णिता ॥१॥" तथा-"स्मित न लक्षण वचो न कोटिभिः, न कोटिलक्षः सविलासमीक्षितम् । अवाप्यतेऽन्यैह दयोपगृहन, न कोटिकोट्रयाऽपि तदस्ति कामिनाम् ।।१।।"इति, इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णनरूपा वा, 'अस्थविणिच्छए'त्ति अर्थादिविनिश्वयाः-अर्थादिस्वरूपपरिज्ञानानि, तानि च-"अर्थानामर्जने दुःख-मर्जितानां च रक्षणे । आये दुःख, व्यये दुःख, धिगर्थं दुःखकारणम् ॥१॥" तथा-"धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम् । धर्म एवाऽपवर्गस्य, पारम्पर्यण
॥२२॥
Jain Education
For Private & Personal use only
www.jainelibrary.org