________________
सू०१८८
श्रीस्थानाक
सूत्रदीपिका वृत्तिः ।
॥२१॥
त्वाद् धार्मिकाधामिकः, देशविरत्यारम्भ इत्यर्थः १ । अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह-तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमा-बैहानसादिना विनाशः परिकर्म वा आत्मार्थ वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थ वोपक्रमः परोपक्रम इति, तदुभयस्य-आत्मपरलक्षणस्य तदुभयार्थ वोपक्रमस्तदुभयोपक्रम इति २ । 'एव'मिति उपक्रमसूत्रबद् आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्याः, व्यावृत्तस्य भावः कर्म वा वैयावृत्त्य-भक्तादिभिरुषष्टम्भः, तत्रात्मवैयावृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यं गच्छवासिन इति ३ । अनुग्रहो- ज्ञानाद्युपकारः, तत्राऽऽत्मानुग्रहोऽध्ययनादिप्रवृत्तस्य, परानुग्रहो वाचनादिप्रवृत्तस्य, तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्येति ४ । अनुशिष्टिरनुशासन, तत्रात्मनो यथा-"बायालीसेसणसंकमि, गहणंमि जीव ! न हु छलिओ । इहिं जह न छलिजसि, मुंजतो रागदोसेहिं ॥१॥"ति, तथा विधेयनिति शेष इति, परानुशिष्टिर्यथा-"ता तंसि भावविज्जो, भवदुक्खनिपीडिता तुहं एते । हंदि सरण पवन्ना, मोएयव्वा पयत्तेण ॥२॥"ति, तदुभयानुशिष्टिर्यथा"कहकहवि माणुसत्ताइ, पावियं चरणपवररयण च । ता भो ! एत्थ पमाओ, कइयावि न जुज्जए अम्हं ॥३॥"ति, ५ । उपालम्भः-इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथा-"चोल्लगदिटुंतेण, दुलहं लहिऊण माणुसं जम्म । ज न कुणसि जिणधम्म, अप्पा किं वेरिओ तुज्झ ? ॥१॥"त्ति, परोपालम्भो यथा-"उत्तमकुलसंभूओ, उत्तमगुरुदिक्खिओ तुम वच्छ ! । उत्तमनाणगुणड्ढो, कह सहसा वसिओ एवं ? ॥२॥"ति, तदुभयोपालम्भो यथा-"एगस्स कए नियजीवियस्स, बहुयाओ जीवकोडीओ । दुक्खे ठवंति जे केवि, ताण किं सासय
10000-00-00-6000-0000-00-000000000000000000000000000000000000
॥२१२॥
Jan Education Intan
For Private & Personal use only
www.jainelibrary.org