________________
सू० १८७-१८८।
श्रोस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२१०॥
इति, नानाप्रकारौ तु तावाराध्यतत्संमतेतरलक्षणविशेषाऽनपेक्षत्वेनानियतविषया विनय इति, अज्ञानमिथ्यात्वमित उच्यते-'अण्णाणे'त्यादि, ज्ञान हि द्रव्यपर्यायविषयो बोधस्तन्निषेधोऽज्ञान, तत्र विवक्षितद्रव्य देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेपात , यदा सर्वतस्तदा सर्वाज्ञान, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति । उक्त मिथ्यात्वं, तच्चाधर्म इति तद्विपर्ययमधुना धर्ममाह--
तिविहे धम्मे पं० सुयधम्मे चरित्तधम्मे अस्थिकायधम्मे, तिविहे उवक्कमे पंत-धम्मिए उवक्कमे अधम्मिए उवक्कमे धम्मियाधम्मिए उवक्कमे १, अहवा तिविहे उवक्कमे पंत-आओवक्कमे परोवक्कमे तदुभयोवक्कमे २, एवं वेयावच्चे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालंभे ६, एवं पक्केक्के तिण्णि तिण्णि आलावगा जहेव उवक्कमे (सू० १८८)। ___'तिविहे धम्मे' इत्यादि, श्रुतमेव धर्मः श्रुतधर्मः-स्वाध्यायः, एवं चारित्रधर्म:-क्षान्त्यादिश्रमणधर्मः, अयं च द्विविधोऽपि द्रव्यभावभेदे धर्मे भावधर्म उक्तः, यदाह-"दुविहो उ भावधम्मा, सुयधम्मो खलु चरित्तधम्मो य । मुयधम्मो सज्झाओ, चरित्तधम्मो समणधम्मो ॥१॥"त्ति, अस्तिशब्देन प्रदेशा उच्यन्ते, तेषां कायो-राशिरस्तिकायः स चासो संज्ञया धर्मश्चेत्यस्तिकायधर्मो, गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति । अनन्तरं श्रुतधर्माचारित्रधर्मावुक्तावधुना तद्विशेषानाह-'तिविहे उवक्कमे' इत्यादि, सूत्राण्यष्टौ मुगमानि, परमुपक्रमणमुपक्रमःउपायपूर्वक आरम्भः, धर्म-श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धाम्मिकोऽधार्मिक:-असंयमार्थः, तथा धार्मिकश्चासौ देशतः संयमरूपत्वाद् अधार्मिकश्च तथैवासंयमरूप
00000000000000000000000000000000000000000000000000000
॥२१०॥
Jain Education
For Private & Personal use only
www.jainelibrary.org