SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सू०१८७। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२०॥ कतेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते-व्यापार्यत इति प्रयोगो-मनोवाकायलक्षणस्तस्य क्रियाकरण व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगैः-मनःप्रभृतिभिः क्रियते-बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, 'समुदाण'ति प्रयोगक्रिययैकरूपतया गृहीतानां कर्मवर्गणानां समिति-सम्यक प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदान-स्वीकरण समुदान निपातनात्तदेव क्रिया-कर्मति समुदानक्रियेति १, अज्ञानाद् या चेष्टा कर्म वा साऽज्ञानक्रियेति २, प्रयोगक्रिया त्रिविधा व्याख्यातार्था ३, नास्त्यन्तर-व्यवधान यस्याः साऽनन्तरा, सा चासौ समुदानक्रिया चेति विग्रहः, प्रथमसमयवर्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु तदुभयसमुदानक्रियेति ४, 'मइअण्णाणकिरिय'त्ति-"अविसेसिया मइ चिय, सम्मदिहिस्स सा मइष्णाण । मइअण्णाण मिच्छा-दिहिस्स सुयपि एमेव ॥१॥"त्ति, मत्यज्ञानात् क्रिया-अनुष्ठान मत्यज्ञानक्रिया, एवमितरे अपि, नवरं विभङ्गो-मिथ्यादृप्टेरवधिः स एवाज्ञान विभङ्गाज्ञानमिति । 'अविणए'त्यादि, विशिष्टो नयो विनयः-प्रतिपत्तिविशेषः तत्प्रतिषेधादविनयः, देशस्यजन्मक्षेत्रादेस्त्यागो देशत्यागः स यस्मिन्नविनये प्रभुगालीप्रदानादावस्ति स देशत्यागी, निर्गत आलम्बनादआश्रयणीयाद् गच्छकुलादे(० कुटुम्बकादे)रिति निरालम्बनस्तद्भावो निरालम्बनता-आश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेन वोचितप्रतिपत्तिभ्रंशः, प्रेम च द्वेषश्च प्रेमद्वेष नानाप्रकारं प्रेमद्वेष नानाप्रेमद्वेषमविनयः, इयमत्र भावना-आराध्यविषयमाराव्यसंमतविषय वा प्रेम तथाऽऽराध्यसंमतविषयो द्वेष इत्येवं नियतावेतौ विनयः स्यात् , उक्तं च-"सरुपि नतिः स्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः। दानमुपकारकीर्तन-ममन्त्रमूलं वशीकरणम् ।।१।।" ॥२०॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy