SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः । ॥ ६ ॥ 12 Jain Education Internat चणेत्ति च्युतिश्च्यवनं वैमानिकज्योतिष्काणां मरणं, तदेकमेवैकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ॥ 'एगे उबवाए'ति उपपतनमुपपाती - देवनारकाणां जन्म, स चैकश्च्यवनवदिति || 'एगा तक्का' ति तर्कणं तर्कों-विमर्शः अवायात् पूर्व्वा ईहाया उत्तरा प्रायः शिरःकण्डयनादयः पुरुषधर्म्मा इह घटन्त इतिसम्प्रत्ययरूपा, इह चैकत्वं प्रागिवेति ॥ 'एगा सन्न' ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः आहारभयाद्युपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति । 'एगा मन्ना' सि प्राकृतत्वात्मननं मतिः- कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्म्मालोचनरूपा बुद्धिरितियावत्, आलोचनमिति केचित् " नाविन्दसि' विद्वान् विज्ञो वा तुल्यावबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वादुत्पादस्योपावत् || 'एगा 'त्ति प्राग् वेदना सामान्यकर्मानुभवलक्षणोक्ता इह तु पीडालक्षणैव सा च सामान्यत एवेति ॥ अस्या एव' कारण विशेषनिरूपणायाह- 'एगा छेवणा'ति छेदनं शरीरस्यान्यस्य वा खड्गादिनेति || 'एगा भेयणा'सि भेदनं कुन्ता दिना अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघातः इति एकता च विशेषाविवक्षणादिति || वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह - 'ए मरणेति मृतिर्भरणं अन्ते भवमन्तिमं चरमं तच तच्छरीरं चेत्यन्तिमशरीरं तत्र भवा अन्तिमशारीरिकी उत्तरपदवृद्धिः, तद् वा तेषामस्तीति अन्तिमशारीरिका दीर्घत्वञ्च प्राकृतशैल्या, तेषां चरमदेहानां मरणैकताच सिद्धत्वेन पुनर्मरणाभावादिति || अन्तिमशरीरथ स्नातको भूत्वा म्रियते अतस्तमाह- 'एगे संसुद्धे' इत्यादि, एकः संशुद्धः - अशबल चरणः अकषायत्वात्, 'अहाभूति यथाभूतस्ताचिकः 'पत्ते'त्ति पात्रमिव पात्रमतिशयवद् ज्ञानादिगुणरत्नानां प्राप्तो वा गुणप्रकमिति गम्यते । 'गे दुक्खे' त्ति एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःख : 'जीवाणां' ति जीवानां For Private & Personal Use Only सू. १ ainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy