________________
सू०१७-४३
भीस्थाना
सूत्रदीपिका
वृत्तिः
॥१३॥
प्राणिनामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद, एकत्वं चास्य बहूनामपि समस्वभावत्वादिति । दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह 'एगा अहम्मपडिमा' त्ति धारयति दुर्गतौ प्रपततो जीवान, जन्तून् धारयति सुगतौ वा स्थापयतीति धर्मः, उक्तं च-“दुर्गतौ प्रस्तान् जन्तून् , यस्माद् धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः॥२॥" स च श्रुतचारित्रलक्षणः तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमाप्रतिज्ञा अधर्मप्रधानं शरीरं वा अधर्मप्रतिमा, सा चैका, सर्वस्याः परिक्लेशकारणतयेकरूपत्वाद्, अत एवाह'जं से आया' त्ति ' यत् '-यस्मात् 'से' तस्याः स्वाम्यात्मा-जीवोऽथवा 'से' ति सोऽधर्मप्रतिमावानात्मा परिक्तिश्यते-रागादिभिर्बाध्यते संक्लिश्यत इत्यर्थः ॥ एतद्विपर्ययमाह-'एगा धम्मपडिमा' त्ति प्राग्वन्नवरं
पज्जवजाए' त्ति पर्यवाः-ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुद्धयतीत्यर्थः॥ धर्माधर्मप्रतिमे च योगत्रयाद भवत इति तत्स्वरूपमाह-एगे मणे' इत्यादि सूत्रत्रयं, तत्र मन इति मनोयोगः तच्च यस्मिन् यस्मिन् समये विचार्यते तस्मिन् तस्मिन् समये कालविशेषे एकमेव वीप्सानिर्देशेन न वचनापि समये तद द्वयादिसंख्यं भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वाज्जीवानां, स्यादेतत्-नैकोपयोगो जीवो युगपच्छीतोष्णस्पशविषयसंवेदनद्वयदर्शनात, तथाविधभिन्नविषयोपयोगपुरुषद्वयवत् , अत्रोच्यते-यदिदं शीतोष्णोपयोगद्वयं तत स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तयुगपदेवेति । स मनोयोगः केषामित्याहदेवासरमणयाण' ति तत्र दीव्यन्तीति देवाः-वैमानिकज्योतिष्कास्ते च, न सुराः असुराः-भवनपतिव्यन्तरास्ते च
॥१३॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org