________________
अपरियाइत्ता पभू एगवणं एगरूव विउवित्तए ?, गोयमा ! णो इणढे समठे, देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हता पभू"त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गालादानाद् भवतीति विवक्षितमिति ।। 'एग मणेत्ति मननं मनः-औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमृहसाचिव्याज्जीवव्यापारी, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो-मनोद्रव्यमानमेवेति, तच्च सत्यादिभेदादनेकमपि संज्ञिनां वा असङ्ख्यातत्वादसङ्ख्यातभेदमपि एकं मननलक्षणत्वेन सर्वमनसामेकत्वादिति ।। 'एगा वह'त्ति वचनं वाग-औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिब्याज्जीवव्यापारी, वाग्योग इति भावः, I इयं च सत्यादिभेदादनेकाऽप्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति ॥ 'एगे कायवायामेति चीयत इति कायःशरीरं तस्य व्यायामो-व्यापारः कायव्यायामः औदारिकादिशरीरयुक्तहस्यात्मनो वीर्यपरिणति विशेष इति भावः. स पुनरौदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभदोऽपि वा एक एव, कायव्यायामसामान्यादिति. यच्चै कस्यैकदा मनःप्रभृतीनामे कत्वं सूत्र एव विशेषेण वक्ष्यति, 'एगे मणे देवासुरेत्यादिनेति सामान्याश्रयमेवेहैकत्वं व्याख्यातमिति ॥ 'एगा उप्पा'त्ति प्राकृतत्वादुत्यादः, स चैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया | कोऽसाविति ।। 'एगा वियसि विगतिर्विगमः, मा चैका उत्पादवदिति ॥ 'एगा वियच्चत्ति विकृतेः (विगतेः) प्रागुक्तत्वादिह विगतस्य विगमको जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं विगतार्चा, प्राकृतत्वादिति, सा चैका सामान्यादिति ।। 'एगा गती ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादी जीवस्य गमन गतिः, सा चैकदैकस्यका ऋज्वादिका 10 नरकगत्यादिका वा ॥ 'एगा आगतीति आगमनमागतिः-नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति ॥ 'एगे
मामलामा
Jain Education international
For Privals & Fersonal use only
www.jainelibrary.org