SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र- देवासुरमणुयाणं तंसि तंसि समयंसि (सू. ४१) एगे उट्ठाणकम्मबलबीरियपुरिसकारपरक्कमे देवासुरमणुयाणं तंसि तंसि II दीपिका वृत्तिः। समयंसि (सू० ४२) पगे नाणे एगे दंसणे पगे चरित्ते (सू० ४३) 'एगे'त्ति एकः केवलो जीवितवान् जीवति जीविष्यति चेति जीवः प्राणधारणधर्मा आत्मेत्यर्थः, एकं जीवं प्रति गतं. यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत् प्रत्येकं तदेव प्रत्येककं, शरीरं-देहस्तदेवानुकम्पितादिधर्मोपेतं शरीरकं तेन लक्षितस्त-16 दाश्रित एको जीव इत्यर्थः, अथवा अंकारौ वाक्यालङ्कारार्थी, तत एको जीवः प्रत्येकके शरीरे वर्तते इति वाक्यार्थः स्यादिति, इह च 'अपाडिक्कएणं'ति क्वचित् पाठो दृश्यते, स च न व्याख्यातोऽनयबोधादिह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काश्चिदेव वाचनां व्याख्यास्याम इति ॥ इह बन्धमोक्षादय आत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् 'एगा जीवाणमित्यादिना एगे चरित्ते' इत्येतदन्तेन ग्रन्थेनाह-तत्र 'एगाजीवाणं अपरियाइत्ता विगुब्वणा' 'एगा जीवाणं'ति प्रतीतं 'अपरियाइत्त'त्ति अपर्यादाय परितः-समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनलक्षणा स्वस्मिन् स्वस्मिन्नुपत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्येकमेकत्वाद् भवIN धारणीयस्येति, सकलवैक्रियशरीरापेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुदगलपर्यादानपूर्विका सोत्तरबै क्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वात् वैक्रियलब्धिमतः तथाविधशक्तिमत्वाच्चैकजीवस्याप्यनेका स्यादिति पर्यवसितम् , अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसीयते ?, येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुळणाप्यवच्छिद्यते इति चेत्, उच्यते-भगवतीवचनात् , तथाहि-"देवे णं भंते ! महिड्ढिए जाव महाणुभावे बाहिरए पोग्गले Jain Education Interna For Private & Personal use only Briglainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy