SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सू०१८६। श्रीस्थानाक सूत्रदीपिका वृत्तिः । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥२०७|| तत्प्रतिष्ठान नयैराह-'णेगमे त्यादि, नैकेन-सामान्यविशेषग्राहकत्वात्तस्य नैकेन ज्ञानेन मिनोति परिच्छिनत्तीति नैकमः, अथवा निगमा:-निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः १, संग्रहण भेदानां, संगृह्णाति वा तान् संगृह्यते वा ते येन स सङ्ग्रहो-महासामान्यमात्राभ्युपगमपर इति २, व्यवहरण ब्यवहियते वा तेन विशेषेण वा सामान्यमवह्रियते-निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारो-विशेषमात्राभ्युपगमपरः ३, एतेषां नयानां मतेनेति गम्यम् , ऋजु-अवक्रमभिमुखं श्रुत-श्रुतज्ञान यस्येति ऋजुश्रुतः, ऋजु वा-अतीतानागतवक्रपरित्यागाद् वर्तमान वस्तु सूत्रयति गमयतीति ऋजुसूत्रः-स्वकीय साम्प्रतंच वस्तु नान्यदित्यभ्युपगमपरः ४, शब्द्यतेअभिधीयतेऽभिधेयमनेनेति शब्दो-वाचको धनिः, नयन्ति-परिच्छिन्दन्त्यनेकधर्मात्मक सद् वस्तुसा(अन)वधारणतयैकेन धर्मेणेति नयाः, शब्दप्रधाना नयाः शब्दनयाः, ते च त्रयः-शब्दसमभिरूढेवंभूताख्याः, तत्र शब्दनमभिधानं शब्द्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, स च भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपि च वस्त्वभ्युपगच्छतीति ५, वाचक वाचकं प्रति वाच्यभेदं समभिरोहयति-आश्रयति यः स समभिरूढः, सह्यनन्तरोक्तविशेषणस्यापि वस्तुनः शक्रपुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घटपटादिवदिति, यदा शब्दार्थों घटते-चेष्टत इति घट इत्यादिलक्षणः ६, 'एव'मिति तथाभूतः सत्यो घटादिरों | नान्यथेत्येवमभ्युपगमपर एवंभूतो नयः, अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्याविष्टमेवार्थमिच्छति, जलाहरणादिचेष्टावन्त घटमिवेति ७, तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्व नरकाणामिति मतं, चतुर्थस्य शुद्धत्वादाकाशस्य च गच्छतां तिष्ठतां वा सर्व भावानामेकान्तिकाधारत्वाद् भुवोऽनैकान्तिक ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥२०७॥ Jain Education Intem For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy