________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२०॥
00000000000000000000000000000000000000000000000000000000
निश्चयः स च प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः, प्रत्ययादिन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातः प्रात्ययिकः, साध्यमग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी, ततो जातमानुगामिकमनुमान, तपो व्यवसाय आनुगामिक एवेति, अथवा प्रत्यक्षः-स्वयंदर्शनलक्षणः, प्रात्ययिकः-आप्त(त्म)वचनप्रभवः, तृतीयस्तथैवेति ५, इहलोके भव ऐहलौकिको-य इहभवे वर्तमानस्य निश्चयोऽनुष्ठान वा स ऐहलौकिको व्यवसाय इति भावः, यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति ६, लौकिकः सामान्यलोकाश्रयो निश्चयोऽनुष्ठान वा, वेदाश्रितो वैदिकः, समयः-साङ्ख्यादीनां सिद्धान्तस्तदाश्रितस्तु सामयिकः ७, लौकिकादयो व्यवसायाः प्रत्येक त्रिविधास्ते च प्रतीता एव, नवरमर्थधर्मकामविषयो निर्णयो यथा"अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दान च दया दमश्च । कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु ॥१॥" इत्यादिरूपस्तदर्थ मनुष्ठान वा अर्थादिरेव व्यवसाय उच्यत इति, ८, ऋग्वेदाधाहितो निर्णयो. व्यापारो वा ऋग्वेदादिरेवेति ९, ज्ञानादीनि सामायिको व्यवसायः, तत्र ज्ञान व्यवसाय एव पर्यायशब्दत्वात् दर्शनमपि श्रद्धानलक्षण व्यवसायो, व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात् १०, अर्थस्य राज्यलक्ष्म्यादेोनिरुपायोऽर्थयोनिः, साम - प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहः भेदो-जिगीषितशत्रुवर्गस्य ॥ स्वाम्यादिस्नेहापनयनादिः, कचिद् दण्डपदत्यागेन प्रदानेन सह तिस्रोऽर्थयोनयः पठयन्ते, भवन्ति चात्र श्लोकाः"परस्परोपकाराणां, दर्शन १ गुणकीर्तनम् २ । सम्बन्धस्य समाख्यान ३मायत्याः सम्प्रकाशनम् ४ ॥१॥" अस्मि
300000000000000000000000000000000000000000000000000
॥२०॥
Jain Education
For Privals & Fersonal use only
Il www.jainelibrary.org