________________
सू० १८२॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२०२॥
शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं च-"जवट्टइ उवयारे, उवगरणं तसि होइ उवगरण । अइरेग अहिगरण', अजओ अजय परिहरंतो ॥१॥" अयतश्च यत्तद् भुजानो भवती| त्यर्थः, भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्त च-"बत्तीस किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीस भवे कवला ॥१॥ कवलाण य परिमाण, कुक्कुडिअंडपमाणमित्तं तु । जो वा अविगियवयणो, वयणमि छुहेज्ज वीसत्थो ॥२॥" इयं चाष्ट १ द्वादश २ पोडश ३ चतुर्विंशति-४ एकत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पञ्चविधा भवति, 'एवम् । अनेनानुसारेण पानेऽपि वाच्या, भावोनीदरता पुनः क्रोधादित्यागः, उक्त च-"कोहाईणमणुदिण, चाओ जिणवयणभावणाओ य । भावेणोमोदरिया, पन्नत्ता वीयरागेहिं ॥१॥"६। उपकरणावमोदरिकाया भेदानाह-'उवकरणे'त्यादि, एक वस्त्र जिनकल्पिकादेरेव, एवं पात्रमपि, 'एग पाय जिणकप्पियाणमिति वचनादिति, तथा 'चियत्तेण' संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा 'चियत्तस्स वा' संयमिनां संमतस्योपधेः-जोहरणादिकस्य 'साइजणय'ति सेवा 'चियत्तोवहिसाइज्जणय'त्ति ७ । 'चियत्तेण'ति प्रागुतमेतद्विपर्ययभेदान् सकलानाह-'तओ'इत्यादि स्पष्ट, किन्तु अहिताय-अपथ्याय असुखाय-दुःखाय अक्षमाय-अयुक्तत्वाय अनिःश्रेयसाय-अमोक्षाय अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता-आर्तस्वरकरण कर्करणता-शय्योपधिदोषोद्भावनागर्भ प्रलपनमपध्यानता-आर्त्तरौद्रध्यायित्वमिति ८ उक्तविपर्ययसूत्रं व्यक्तम् ९। निग्रन्थानामेव परिहर्त्तव्यत्रयमाह-'तओ'इत्यादि, शल्यते-वाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविध-माया-निकृतिः सैव शल्य मायाशल्यं १, एवं सर्वत्र, नवरं नितरां दीयते
Jan Education
et
For Private & Personal use only
www.jainelibrary.org